________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् )
अत्र उच्यते यत्किञ्चिदेतत् उपलम्भस्य दर्शनत्वात्, अनुपलम्भस्य चादर्शनत्वात्, दर्शनादर्शनयोश्च व्यभिचारतः परेण ५ प्रतिक्षेपात्, तदितिरिक्तस्य चेहाप्यभावादिति ॥
स्यादेतत्-नाभावः उपलब्धिलक्षणप्राप्तानुपलब्धस्य दर्शनादू दृष्टस्य चादर्शनात् । नं, उपलब्धिलक्षणप्राप्तस्य अनुपलम्भासिद्धेः । उपलब्धिलक्षणप्राप्तिर्द्युपलम्भप्रत्ययान्तरसाकल्यम् । तेषामुपलम्भ( खो० व्या० )
१० इति । एतदाशङ्कयाह- अत्र उच्यते यत्किञ्चिदेतत् असारमित्यर्थः । कुत इत्याह- उपलम्भस्य दर्शनत्वात् तथाऽनुपलम्भस्य चादर्शनत्वात्, दर्शनादर्शनयोश्च व्यभिचारतः कारणात् परेण - धर्मकीर्त्तिना प्रतिक्षेपात्, तदतिरिक्तस्य च दर्शनादर्शनातिरिक्तस्य च इहापि - प्रत्यक्षानुपलम्भोपाये अभावात्, प्रत्यक्षानुपलम्भावपि दर्शनादर्शने एव इति अर्थः ॥ १५ स्यादेतदित्यादि । स्यादेतत् - अथैवं मन्यसे - नाभावः, प्रक्रमात् तदतिरिक्तस्य । कथमित्याह - उपलब्धिलक्षणप्राप्तानुपलब्धस्य दर्शनाद् दृष्टस्य चउपलब्धिलक्षणप्राप्तस्यैव अदर्शनात् । एतदाशङ्कयाह-न - नैतदेवम्, उपलब्धिलक्षणप्राप्तस्य सतः अनुपलम्भासिद्धेः । एनामेवाह - उपलब्धिलक्षणप्राप्तिर्यस्मात् उपलम्भप्रत्ययान्तरसाकल्यम् - उपलम्भकारणान्तराणां सकल२० भावः । यदि नामैवं ततः किमित्याह - तेषाम् - उपलम्भप्रत्ययान्तराणां सकलाना
२५
१७८
"
[ षष्ठः
( विवरणम् )
(१२) दर्शनादर्शनयोश्च व्यभिचारत इति । न ह्येकदा धूमोऽग्निसद्भावे दृष्टः, अन्यदा चै न दृष्टः इत्येतावतैव गम्यगमकभावो 'दासी गर्दभ 'न्यायेन दर्शनादर्शनयोर्व्यभिचारात्, किन्तु कार्यकारणभावेन नियतस्वभावेन वा गम्यगमकभावः । यदुक्तम्"कार्यकारणभावाद् वा नियमाद् वा नियामकात् ।
अविनाभावनियमो दर्शनान्न न दर्शनाद् ॥”*
इति । मध्यवर्त्तिनो 'न' शब्दस्योभयत्र सम्बन्धाद् दर्शना (द) दर्शनना (?) दिति दर्शनान्न दर्शनादिति मध्यवर्त्तिनो 'न' शब्दस्य उभयत्र सम्बन्धात् दर्शनादर्शनभावेन नाविनाभावनियमस्तथा न दर्शनादर्शनमात्रेण नाविनाभावनियम इति ॥
१ 'नोऽपलब्धि ०' इति ग-पाठोऽनादरणीयः । २' दर्शना एवे०' इति क- पाठः । ३ 'न च दृष्टः' इति च - पाठः । ४ 'नियमाकात्' इति ख- पाठः । ५ अनुष्टुप् । ६ 'मात्रेणाविना ०' इति च पाठः ।