________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् १७७
(मूलम्) मुपलम्भे तल्लक्षणमनुपलब्धमुपलभ्यते” इत्यादि । । एतेन चोपलब्धिलक्षणप्राप्तानुपलम्भेन तत्र तस्य खहेतोः सन्निधानात् प्रागपि सत्त्वमन्यतो देशादागमनं प्रागवस्थितकटकुव्यादि-५ हेतुत्वं चापाकृतमिति । तथा कदाचित् प्रत्यक्षपुरस्सरोऽनुपलम्भः, यथोक्तम्-"तत्रैकाभावेऽपि नोपलभ्यते तत् तस्य कार्यम्” इति । एतदुक्तं भवति-येषां सन्निधानेन प्रवर्तमानं यद् दृष्टं तेषु मध्ये यदैकस्याप्यभावो भवति तदा नोपलभ्यते तत् तस्य कार्यम् , यथा धूमो हुतभुजः, घटादि मृदादीनाम् । इत्युपायभावान्नास्ति दोष इति । १०
(खो० व्या०) येषामुपलम्भे मृत्पिण्डादिकारणानां तल्लक्षणम्-उपलब्धिलक्षणमेव घटादिकार्य अनुपलब्धं सत् पूर्वमुपलभ्यत इत्यादि तत् तस्य कार्यमित्यनुपलम्भपुरस्सरं प्रत्यक्षम् ॥ । एतेन चोपलब्धिलक्षणप्राप्तानुपलम्भेनानन्तरोक्तेन तत्र-देशे तस्य-१५ कार्यस्य स्वहेतुसन्निधानात् प्रागपि, हेत्वभावेऽपीत्यर्थः, सत्त्वमपाकृतमिति सम्बन्धः । तथा अन्यतो देशादागमनं कार्यस्य सत एव । तथा प्रागवस्थितकटकुट्यादिहेतुत्वं चापाकृतमिति । यदि तेऽपि हेतवः स्युः स्वहेतुसन्निधानात् प्रागपि तेभ्य एवोत्पद्येत कार्यम् , न चोत्पद्यते, तस्मान्न हेतवस्ते इति । एवं कदाचिदनुपलम्भपुरस्सरं प्रत्यक्षं साधनम् । तथा कदाचित् प्रत्यक्षपुरस्सरोऽ- २० नुपलम्भः साधनम् , यथोक्तं न्यायवादिनैव-"तत्रैकाभावेऽपि नोपलभ्यते तत् तस्य कार्यम्” इति परग्रन्थः । एवं व्याचिख्यासुराह-एतदुक्तं भवति । येषां सन्निधानेनान्यादीनां प्रवर्त्तमानं यदू दृष्टं-धूमादि तेषु मध्ये यदैकस्थाप्यभावो भवति अन्यादेरेव तदा नोपलभ्यते तत् तस्य-अनुपलभ्यमानस्य कार्यम् । निदर्शनमाह-यथा धूमोहुतभुज:-अग्नेस्तथा घटादि मृदादी-२५ नाम् । इति-एवमुपायभावात् कारणात् , तन्निश्चय इति वर्तते, नास्ति दोष
(विवरणम्) (१२) उपलब्धिलक्षणमेवेति । लक्ष्यतेऽनेनेति लक्षणम् , उपलब्धिरेव लक्षणंगमकं यस्य तत् तथा !!
१ 'इत्यादिना तत्' इति क-पाठः । २ 'खत एव' इति ङ-पाठः। ३ 'तत्रास्य कार्यमेति पर.' इति क-पाठः।
अनेकान्त० २३