________________
१७६ अनेकान्तजयपताकाख्यं प्रकरणम्
[षष्ठः (मूलम् ) शब्दार्थातिरेकेण तन्मतात्याग इति तदत्यागिनो न युक्तमेवमादिप्रलपनम् । श्रौतशब्दार्थाङ्गीकरणे चोक्तवन्मदीयाभ्युपगमाश्रय इति ५यथा यथा विचार्यते तथा तथा न परमते कार्यकारणभावो युज्यते, योगेऽपि न तन्निश्चये कश्चिदुपायः॥ _ स्यादेतत्-प्रत्यक्षानुपलम्भसाधनः कार्यकारणभाव इत्युपायः। इह च प्रत्यक्षमेव प्रमाणे प्रत्यक्षानुपलम्भशब्दाभ्यामुच्यते । तथाहि-कार्यकारणाभिमतपदाकारं प्रत्यक्षं तद्विविक्तवस्त्वाकारमनु१० पलम्भ इति । एतौ च प्रत्यक्षानुपलम्भौ परस्परसहायौ साधनम् । कदाचिदनुपलम्भपुरस्सरं प्रत्यक्षम्, यथाऽऽह न्यायवादी-"येषा
(खो० व्या०) जननवन्न चक्षुरादिजननमपीत्यर्थः । इति एवं किं न पश्यत्यसौ कुशाग्रीयबुद्धिः येन तथा मन्यत इति उक्तप्रायं चात्र व्यतिकर इति नाधिकः प्रयासः । १५ यस्मादेवं तस्मान्न श्रौतशब्दार्थातिरेकेण तन्मतात्याग:-धर्मकीर्तिमतात्यागः, किन्तु त्याग एव । इति एवं तदत्यागिनः, प्रक्रमाद्धर्मकीर्तिमतात्यागिनः किमित्याह-न युक्तमेवादिप्रलपनं यथोक्तमसम्बद्धमिति । औतशब्दार्थाङ्गीकरणे च सति किमित्याह-उक्तवत्-यथोक्तं प्राक् तथा मदीया. भ्युपगमाश्रयः तदेकानेकस्वभावापत्त्या । इति एवं यथा यथा विचार्यते २० सूक्ष्मेक्षिकया तथा तथा न परमते-क्षणिकैकान्तवादिमते कार्यकारणभावो युज्यते । निदर्शितमेतन्न्यक्षेण । योगेऽपीत्यादि । योगेऽपि कार्यकारणभावस्य न तन्निश्चये-न कार्यकारणभावनिश्चये कश्चिदुपायः परस्य ॥
स्यादेतदित्यादि। स्यादेतत्-अथैवं मन्यसे-प्रत्यक्षानुपलम्भसाधनः कार्यकारणभाव इति अस्ति उपायः। अस्यैव भावार्थमाह इह चेत्यादिना । इह च२५ प्रस्तुतोपाये प्रत्यक्षमेव प्रमाणं प्रत्यक्षानुपलम्भशब्दाभ्यां द्वाभ्यामुच्यते। एतद्भावनायाह-तथाहीत्यादि । तथाहीति पूर्ववत्। कार्यकारणाभिमतपदार्थाकारं प्रत्यक्षं प्रत्यक्षमुच्यते, तद्विविक्तवस्त्वाकारं-कार्यकारणाभिमतपदार्थविविक्तवस्त्वाकारं प्रत्यक्षमेव अनुपलम्भ इति । एतौ च प्रत्यक्षानुपलम्भौ
परस्परसहायौ सन्तौ साधनम्, कार्यकारणभावस्येति प्रक्रमः । कथमित्याह३० कदाचिदनुपलम्भपुरस्सरं प्रत्यक्षम् , यथाऽऽह न्यायवादी-धर्मकीर्तिः
१ 'सहायं कदा०' इति ग-पाठश्चिन्यः। २ सम्बन्धमिति' इति क-पाठः। ३ 'तस्यैव' इति
ङ-पाठः।