________________
१७५
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) परजननम्' इत्यनेनैवानवकाशं मन्यते, एवं स्पष्टीकृतमप्यर्थतत्त्वं यो नाम स्वदर्शनानुरक्तमतिस्तत्र विश्वशक्तिवैकल्यं न प्रतिपद्यते धावति च चोचं कर्तुं स मुग्धबुद्धिरित्थमपि शक्यः तूष्णीमित्युपहासपरं ५ कारणोपयोगकृतं कार्यखभावविशेषासङ्करमुक्तवान् । परमार्थतस्तु न भवन्त्येव कारणानां भिन्नेभ्यः स्वभावेभ्यः कार्यस्य भिन्ना एव विशेषा इत्ययमर्थ इति । अत्रोच्यते-उपहासपरमित्येतत् सत्यम् , स मुग्धबुद्धिरित्थमपि शक्यः तूष्णीमित्येतदप्येवम् , तस्य विशिष्टबोधाभावात् । यस्तु सन्न्यायकुशलः कुशाग्रीयबुद्धिः स कथमधि-१० कृतचोयं तत्रैव सामर्थ्यादित्यादिनाऽनवकाशं मन्येत ? तत्रैव सामर्थ्य तत्समानजातीयापरापराजननवन्न तदन्यपरापरजननमपि । इति किं न पश्यत्यसौ येन तथा मन्यत इत्युक्तप्रायं चात्र । तस्मान्न श्रोत
(स्त्रो० व्या०) स्यादिति एतत् चोद्यं तत्रैव-विवक्षिते कार्ये सामर्थ्यात् नापरापरजनन-१५ मित्यनेनैव ग्रन्थेन अनवकाशं मन्यते । एवं स्पष्टीकृतमप्यर्थं यो नाम कश्चित् स्वदर्शनानुरक्तमतिः तत्र-कार्ये विश्वशक्तिवैकल्यं तत्कारणापेक्षया न प्रतिपद्यते साङ्ख्यादिः धावति च चोद्यं कर्तुं 'न कारणभेदो भेदकः स्यात्' इत्येवं समुग्धबुद्धिः-चोद्यचञ्चुः इत्थमपि शक्यस्तूष्णीमिति-मूक इति उपहासपरं कारणोपयोगकृतं कार्यखभावविशेषासङ्करमुक्तवान् हेतुबिन्दी; २० परमार्थतस्तु न भवन्त्येव कारणानां-चक्षुरादीनां भिन्नेभ्यः स्वभावेभ्यः कार्यस्य-विज्ञानादेः भिन्ना एव विशेषा इत्ययमर्थस्तस्येति । एतदाशयाहअत्रोच्यते । उपहासपरमित्येतत् सत्यम् , अप्रमाणोपपन्नतयेत्यभिप्रायः । स मुग्धवुद्धिरित्थमपि शक्यस्तूष्णीमित्येतदपि एवमविप्रतिपत्तिरावयोः । कुत इत्याह-तस्य-मुग्धबुद्धेर्विशिष्टबोधाभावात् , यस्तु सन्न्यायकुशलः २५ कश्चित् कुशाग्रीयबुद्धिः-तीक्ष्णबुद्धिर्भवानिव स कथमधिकृतचोचं-न कारणभेदात् कार्यभेदः स्यादिति तत्रैव-सामादित्यादिना अनवकाशं मन्येत?। कथं च न स्यादित्याह-तत्रैव सामये विवक्षितकार्य तत्समानजातीयापरापराजननवदिति निदर्शनं न तदन्यपरापरजननमपि विज्ञानान्तरा
१ विशेषात् सङ्कर.' इति क-पाठः। २ ‘स न्याय.' इति क-पाठः। ३ 'सामर्थ्यादिना' इति क-पाठः। ४ 'तत्समानजातीयापरापरजननमपीति' इति ग-पाठः। ५ 'परापरजनन.' इति उ-पाठः।