________________
१७४ अनेकान्तजयपताकाख्यं प्रकरणम्
[ षष्ठः (मूलम्) यचोक्तम्-'एतेन कारणानां भिन्नेभ्यः स्वभावेभ्यः कार्यस्य भिन्ना एव विशेषा इत्येतदपि प्रत्युक्तमिति एतदप्ययुक्तम्, कार५णानां भिन्नेभ्यः स्वभावेभ्यः कार्यस्य तदविरोधात्, तदेकानेकस्व. भावत्वात् , तथोपलब्धेः, धर्मकीर्तिनाऽप्यभ्युपगतत्वात् , हेतुबिन्दी "भिन्नखभावेभ्यश्चक्षुरादिभ्यः सहकारिभ्य एककार्योत्पत्तौ न कारणभेदात् कार्यभेदः स्यादित्याशङ्कय न यथाखं खभावभेदेन तद्विशेषोपयोगतस्तदुपयोगकार्यस्वभावविशेषासङ्करात्" इत्यादेः स्त्रय१० मेवाभिधानात् ॥
स्यादेतत्-अभिहितमिदम् , अन्यार्थ त्वभिहितम्। कस्तीस्यार्थः? स हि 'न कारणभेदो भेदकः स्यादिति' चोचं 'तत्रैव सामर्थ्यान्नापरा
(खो० व्या०) यञ्चोक्तमित्यादि । यच्चोक्तं पूर्वपक्षे-'एतेन कारणानां भिन्नेभ्यः स्व१५ भावेभ्यः कार्यस्य भिन्ना एव विशेषा इत्येतदपि प्रत्युक्तमिति एतदपि
अयुक्तं प्रत्युक्तम् । कथमित्याह-कारणानां भिन्नेभ्यः खभावेभ्यः कार्यस्य तदविरोधात्-भिन्नविशेषार(१) विरोधात् । अविरोधश्च तदेकानेकस्वभावत्वात् तस्य-कार्यस्यैकानेकस्वभावत्वात् , एकानेकस्वभावत्वं च तस्य तथोपलब्धेः-एकानेकस्वभावतयोपलब्धेर्विज्ञानं नीलं कुशलमित्यादिसंवेदनात् तदुपलब्धिभवनीया । इहैव २० हेत्वन्तरमाह-धर्मकीर्तिनाऽप्यभ्युपगतत्वात् कारणानां तेभ्यः कार्ये तदविरो
धस्स । एतदेवाह हेतुबिन्दी ग्रन्थे-भिन्नखभावेभ्यश्चक्षुरादिभ्यः सहकारिभ्य एककार्योत्पत्तौ सत्यां, विज्ञानोत्पत्तावित्यर्थः, न कारणभेदात् कार्यभेदः स्यात् अनेकेभ्य एकखभावेन इत्याशङ्कय न यथाखं स्वभावभेदेन-न
चैतदेवं यथाखं-यथाऽऽत्मीयं स्वभावभेदेन तद्विशेषोपयोगता-कारणविशेषोप२५ योगात् तदुपयोगकार्यखभावविशेषासङ्करात्-कारणविशेषोपयोगात् कार्ये
स्वभावविशेषासङ्करात् इत्यादेन्थात् खयमेवाभिधानात् धर्मकीर्त्तिनेति ॥ __ स्यादेतत्-अभिहितमिदम्, अन्यार्थ त्वभिहितमिति । एतदाशङ्कयाहकस्तयस्यार्थोऽभिहितस्य ? । स हि-धर्मकीर्तिः 'न कारणभेदो भेदका
(विवरणम्) ३० (२०-२१) तेभ्यः कार्ये तदविरोधस्येति । तेभ्यः-भिन्नेभ्यः कारणस्वभावेभ्यः कार्ये-आधारभूते तदविरोधस्य-विशेषाविरोधस्य ॥
१-२ १६८तमे पृष्ठे। ३ 'तस्य' इत्यधिको ग-पाठः । ४ 'अस्य' इति उ-पाठः । ५ 'करणविशेषोपयोगेन तदुप०' इति उ-पाठः।