________________
अधिकारः ]
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
दृश्यते नेतरत्रेति चेत्, अस्त्येतत्; किन्त्वसौ न तत्खरूपाद्यनुवैधमन्तरेण । ततः किमिति चेत्, अनिवारितोऽन्वयः ॥
एतेन बीजादेर्विसदृशाङ्करादिवेदनं प्रत्युक्तम्, तस्यैव तथाभव - ५ नात्, अन्यथा तदनुपपत्तेः तथाभाविहेत्वभावात्, तुच्छप्रागभावे तदभवनमात्रतया प्रध्वंसाभाववत् तदनुपपत्तेरिति भेदकहेतुभावतः कथञ्चित् तद्रूपानुकार सिद्धेरिति ॥
१७३
( स्वो० व्या० ) नेतरत्रेति चेत्-पटादौ । एतदाशमाह - अस्त्येतदित्यादि । अस्त्येतद् यदुक्तं १० परेण, किन्त्वसौ - तद्रूपानुकारो न तत्खरूपाद्यनुवेधमन्तरेण- न मृत्स्वरूपगुणानुवेधं विना । ततः किम् ? । इति चेत् एतदाशङ्कयाह-अनिवारितः अन्वयः, तत्स्वरूपाद्यनुवेधस्यैवान्वयत्वात् ॥
एतेनेत्यादि । एतेन - अनन्तरोदितेन बीजादेः सकाशाद् विसदृशाङ्करादिवेदनं प्रत्युक्तम् । कथमित्याह - तस्यैव - बीजादेस्तथा भवनात् - अङ्कुरादिरूपेण १५ भवनात्, सन्तत्या प्रभावगुणफलान्वयोपलम्भादिति भावः । इत्यं चैतदङ्गीकर्त्तव्यमित्याह - अन्यथा - तस्यैव तथाभवनमन्तरेण तदनुपपत्तेः - अङ्कुराद्यनुपपत्तेः । अनुपपत्तिश्च तथाभावि हेत्वभावात् तथा अङ्कुरादिप्रकारेण भवितुं शीलमस्येति तथाभावी, तथाभावी चासौ हेतुश्च तस्याभावात्, तुच्छप्रागभावे सति विवक्षितकार्यस्य तदभवनमात्रतया - विवक्षित कार्याभवनमात्रतया तत्त्वत्तः प्रागभावस्य २० प्रध्वंसाभाववदिति निदर्शनम् । सोऽपि तदभवनमात्रमेवेत्यर्थः । तदनुपपत्तेःकार्यानुपपत्तेः । न हि प्रध्वंसाभावः कार्यं भवतीति भावनीयम् । नैव प्रागभावोऽपि भवति च कार्यमिति - अतो भेदकहेतुभावतः कारणाचित्र क्षित्युदकादेः कथश्चित् - केनचित् प्रकारेण प्रभावगुणफलान्वयलक्षणेन तद्रूपानुकारसिद्धेः- बीजादिरूपानुकारसिद्धेः अङ्कुरादौ बीजादेर्विसदृशाङ्कुरादिवेदनं प्रत्युक्तमिति ॥
·
(विवरणम् )
(१६) सन्तत्या प्रभाव गुणफलान्वयोपलम्भादिति । सन्तत्या - प्रवाहेण प्रभावगुणयोः कारणसत्कयोः फले- कार्येऽन्वयस्योपलम्भादिति भाव इति परमार्थः ॥
1
(२१) सोऽपि तदभवनमात्रमेवेति । सोऽपि - प्रागभावः, न केवलं प्रध्वंसाभाव इत्यर्थः, तदभवनमात्रमेव - कार्यस्याभवनमात्रमेव तुच्छम् । ततो यथा प्रध्वंसा - ३० भावस्तुच्छत्वान्न कार्योभवत्येवं प्रागभावोऽपि मा भवतु, तुच्छत्वस्याविशिष्टत्वात् ॥
१ 'अस्त्वेतत्' इति क-पाठः । २. 'बन्धमन्तरेण' इति क-पाठः । ३ ' हेतुभावात्' इति गपाठः । ४ ' का रिसिद्धे ०' इति ग-पाठः । ५ 'कार्याभवति' इति ङ-पाठः । ६ 'प्रवाहेण रुपयोः फले' इति क- पाठः !
२५