________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम्)
एवं घटजननस्वभावाः, घट एव च तज्जन्यस्वभावः, इति हेतुफलभावापत्त्या न्यायबाघेति । तदेशभेदेनेत्थं तत्तत्स्वभावत्व५ कल्पना विरुद्ध्यत इति चेत्, न, तथातत्तत्स्वभाववैचित्र्यतस्तत्कार्लभेदेन च वो विरोधासिद्धेः, तत्र तत्सत्ताऽननुगमात् तदनुगमे तदुपादानत्वापत्तेः । कथं 'विरोधासिद्धिरिति चेत्, तत्स्वभावस्या - चिन्त्यशक्तित्वात् पर्यनुयोगायोगात्, अतिप्रसङ्गात् । इति तस्यैव तथाभावमन्तरेण देशा भेदेऽपि समानत्वाच्च । तत्रैव तद्रूपानुकारो ( स्वो० व्या० )
3
स्वभावः-मृत्पिण्डजन्यस्वभावः इत्येवं तन्तव एव घटजनन स्वभावाः, घट एव च तज्जन्यखभावः - तन्तुजन्यस्वभावः । इति एवं हेतुफलभावापत्त्या न्यायबाधेति भावितम् । तद्देशेत्यादि । तयोः - मृत्पिण्डादि-पटाद्योः देशभेदेन हेतुना इत्थम् - एवमुक्तनीत्या तत्तत्स्वभावत्वकल्पना 'विरुध्यते । इति चेत्, १५ एतदाशाह - नेत्यादि । न-नैतदेवं तथा तेन प्रकारेण देशभेदलक्षणेन तत्तत्स्वभाववैचित्र्यतः - मृत्पिण्डादिपटादिखभाववैचित्र्येण तत्कालभेदेन च तयोःमृत्पिण्ड - घटाद्योः कालभेदेन च वः - युष्माकं विरोधासिद्धेः मृत्पिण्डो युष्माकं भिन्नक्षणघटजननखभाव एव । एवं घटमधिकृत्य भिन्नदेशपटजनन स्वभावत्वेऽप्यस्याविरोध एवेति भावनीयम् । तथेत्यादि । तत्र तदेशभिन्ने पटादौ तत्सत्ताऽननु२० गमात् - मृत्पिण्डादिसत्ताऽननुगमात् अनुगमे तदनुपादानत्वापत्तेः मृत्पिण्डादिभावमात्रापत्त्या । कथं विरोधासिद्धिरिति चेत्, विरोधसिद्धिरेवेत्यर्थः । एतदाशङ्कयाह- तत्स्वभावस्य - मृत्पिण्डादिस्वभावस्य अचिन्त्यशक्तित्वात् कारणात् विरोधासिद्धिः । तथा पर्यनुयोगायोगात् स्वभावस्य तथा अतिप्रसङ्गात् मृत्पिण्डादपि घटे तत्सत्तानुगम एवेति भावनीयम् । इति - एवं तस्यैव हेतोः २५ तथाभावमन्तरेण-कार्यभावं विना देशाभेदेऽपि सति समानत्वाच्चेति भावनीयम् । तत्रैव- मृत्पिण्डाद् घटादौ तद्रूपानुकारो दृश्यते - मृद्रूपानुकारः, ( विवरणम् )
(२५) समानत्वाच्चेति । हेत्वन्वयाभावे सति मृत्पिण्डपदयोर्मृत्पिण्डयोर्वा समान एव कार्यकारणभाव इत्यर्थः ॥
१०
१७२
[ षष्ठः
धादिसिद्धि' इति ग-पाठः । ४ 'इति' इति पाठो नास्ति ग-प्रतौ । ङ - पाठः । ६ 'निरुध्यते' इति ङ-पाठः । ७ 'तत्व०' इति ङ-पाठः । पाठः । ९ मृत्पिङते (?) घटादी' इति ङ-पाठः ।
१ ' तद्देशे भेदेनेत्थं' इति पाठः । २ 'भेदेनेव वा विरोधा०' इति ग-पाठोऽशुद्धः । ३ 'विरो५ ' इत्येवमुक्त०' इति ८ ' तत् तथा' इति क