________________
अधिकारः]
खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
स्वमन्तरेण गम्यते, तचाशेषतत्कालभाविभावसाधारणमेवेति परित्यज्यतामसदभिनिवेशः । तेऽन्यदाऽन्यतोऽपि भवन्ति तत् तु तत एवेति विशिष्टतत्वभावत्वावगतेरदोष इति चेत्, न, विवक्षि- ५ तानामन्यदाऽभावेन अन्यतो भावासिद्धेः, सामान्येन तु तस्यापि 'सिद्धेः । एवमपि तदेव तजननस्वभावमितरदेव च तजन्यखभावमित्यभ्युपगमे न्यायबाधा, एवम्भूतस्य वाङ्मात्रेण खभावान्तरस्याप्यभिधातुं शक्यत्वात् । तथाहि-एवमपि वक्तुं पार्यत एव मृत्पिण्ड एव पटजननवभावः, पट एव च तजन्यखभावः, इत्येवं तन्तव
(स्त्रो० व्या०) मन्तरेण गम्यते एतावन्मात्रनिबन्धन एवेत्यभिप्रायः तच-तदनन्तरभावित्वम् । अशेषतत्कालभाविभावसाधारणमेवेति कृत्वा परित्यज्यतामसदभिनिवेशः। ते-अशेषतत्कालभाविनो भावा अन्यदा-अन्यस्मिन् कालेऽन्यतोऽपि भवन्ति प्रबन्धापेक्षया तत् पुनः-विवक्षितं कार्यं तत एव-विवक्षितात् ।। कारणात् । इति-एवं विशिष्टतत्स्वभावत्वावगतेः कारणाददोष इति चेदनन्तरोदितः । एतदेवाशक्याह-नेत्यादि । न-नैतदेवं विवक्षितानाम्-अशेषतत्कालभाविनां भावानामन्यदाऽभावेन हेतुना अन्यतः-हेत्वन्तराद् भावासिद्धेः। विशिष्टा हि ते तदैव भवन्ति, नान्यदेति भावनीयम् । सामान्येन तु तस्यापिविवक्षितस्य कार्यस्य 'सिद्धेः अन्यदेति । एवमपि-तत्त्वनीतौ तदेव-विवक्षितं२० कारणं तज्जननखभावं-विवक्षितकार्यजननखभावं इतिरे]तरदेव च-विवक्षितं कार्य तज्जन्यस्वभावं-विशिष्टकारणजन्यस्वभावमित्यभ्युपगमे । किमित्याहन्यायबाधा। कथमित्याह-एवम्भूतस्य परमार्थतो निषन्धनस्य वाइमात्रेण हेतुना खभावान्तरस्याप्यभिधातुं शक्यत्वात् । एतदेवाह तथाहीत्यादिना। तथाहीति पूर्ववत् । एवमपि-वक्ष्यमाणनीत्या वक्तुं पार्यत एव, न जिह्वान्तरे २५ 'डोगरो भवति यदुत मृत्पिण्ड एव पटजननखभावः, पट एव च तजन्य
(विवरणम्) पिण्डादिभावमात्रापत्त्येति । यदि हि तद्देशभिन्ने घटे मृदोऽनुगमः स्यात्, तदा असावपि मृत्पिण्डादिपाच्यस्वरूपमात्र एव स्यादित्यर्थः ॥
'सिद्धः' इति ग-पाठः। २ 'वक्तुं शक्यत एव अमृत्पिण्ड.' इति क-पाठः। ३ 'करणात्' इति क-पाठः । ४ 'सिद्धिः' इति ङ-पाठः। ५ 'पर्यायत एव' इति क-पाठः। ६ 'डोन्तरो' इति -पाठः। ७ 'भिन्नघटे' इति च-पाठः।