________________
१७० अनेकान्तजयपताकाख्यं प्रकरणम्
[षष्ठः (मूलम्) खभाव इत्यात्मीया सत्ता, तस्यैव हेतोरियमात्मीया सत्ता यत् तदनन्तरं भवत् तदेव तत् कार्यमिति तस्यैव तथाभवनेऽन्वय५'सिद्धिः, अतत्वभावत्वे च तदनन्तरं न तद्भावः, भावे वाऽतिमसङ्ग इति कुतो हेतुफलभावनियमः। नन्वलमनेन वाक्छलेन । तस्यायं खभावः स्वधर्मों यदपगच्छति तस्मिन् तदनन्तरं तदेव भवति । स्थादेतत्-एवं यदि तदाऽन्यन्न भवेत्, भवति च । किं तेन भवता।
न तत् तत इति चेत्, इतरस्य ततो भावे को हेतुः। तत्वभाव १० एवेति चेत्, न असौ तत्स्वरूपाचनुवेधवैकल्ये तदनन्तरभावि
(स्वो० व्या०) एतदेवाह तथाहीत्यादिना । तथाहीति पूर्ववत् । खो भावः खभाव इति । किमुक्तं भवति ? आत्मीया सत्ता। अयं भावार्थः-तस्यैव हेतोरियमा
त्मीया सत्ता यत् तदनन्तरं भवत्-विवक्षितहेत्वनन्तरं तदेव-विवक्षितमेव १५तत् कार्यम् । इति-एवं तस्यैव-हेतोस्तथा-कार्यभावेन भवनेऽन्वयसिद्धिः। विपक्षे बाधामाह अतत्वभावत्वे चेत्यादिना । अतत्स्वभावत्वे च हेतोः तदनन्तरं-विवक्षितहेत्वनन्तरं न तावा-न विवक्षितकार्यभावः, भावे वा तस्य अतिप्रसङ्गः अतत्स्वभावत्वाविशेषे तदपरभावापत्त्या । इति-एवं कुतो हेतुफलभावनियमः । नैवेत्यर्थः । नन्वलमनेन वाक्छलेन । तस्यायं २० स्वभाव इति कोऽर्थः ? । खधर्मः । किम्भूत इत्याह-यदपगच्छति तस्मिन्
तदनन्तरं तदेव भवति-विवक्षितं कार्यमिति । एतदाशङ्कयाह-स्यादेतत्एवं परोदितं यदि तदा तदनन्तरकाले अन्यन्न भवेद् भवति च । ततश्रावधारणार्थायोगः । किं तेन-अन्येन भवता? । न तत्-अन्यत् तत इति
चेत्-विवक्षितात् कारणात् । एतदाशङ्कयाह-इतरस्य-तत्फलाभिमतस्य ततः-विव२५ क्षिताद्धेतोर्भावे को हेतुः । तत्वभाव एवेति चेत्-विवक्षितस्वभाव एवेति
चेत् हेतुः । एतदाशझ्याह-न असौ-तत्स्वभावः तत्स्वरूपाद्यनुवेधवैकल्येहेतुखरूपाधनुवेधविकलभावे, 'आदि'शब्दाद् गुणपरिग्रहः, तदनन्तरभावित्व
(विवरणम्) (२७) हेतुस्वरूपाद्यनुवेधविकलभाव इति । हेतोः-मृदादेः खरूपं-मृत्त्वादि ३० तस्यानुवेधः-घटादौ कार्येऽनुवृत्तिस्तस्य विकलभावे, विकलत्व इत्यर्थः ॥
(२७) 'आदि'शब्दाद् गुणपरिग्रह इति । अत्र सौरभादिगुणो गृह्यते तत्१ 'सिद्धेः' इति क-पाठः। २ 'यदापि गच्छति' इति क-पाठः । ३ 'कार्याभावेन' इति ङ-पाठः । ४ 'धारणावायोगः' इति क-पाठः। ५'कार्यानुवृत्तिः' इति क-पाठः।