________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
१६९ (मूलम्) रिदमेव चास्य फलमिति कुतोऽयं नियमः। विधूय मोहतिमिरमालोच्यतामेतदिति । किमत्रालोच्यम् ? तत्वभावत एव तनियमसिद्धेः सर्वस्य सुस्थितत्वात् । तथाहि-तयोरेव हेतु-फलयोः स खभावो५ येन स एव तस्यैव हेतुस्तदेव च तस्यैव फलमिति । अतोऽशेषतत्कालभाविभावसाधारणत्वेऽपि तदनन्तरभावित्वस्य, अपरत्र तत् खभावत्वाभावात् अस्यैव च नियमहेतुत्वात् तद्भावसिद्धिरिति । तथाहि-तस्यैवासौ खभावो येन तदनन्तरं भवत् तदेव तत् कार्यमितरदेव च तत्कारणं नान्यदिति ॥ अत्रोच्यते-एतदपि यत्-१० किश्चित्, अन्वयापत्तेः, अन्यथा शब्दार्थायोगात् । तथाहि-खो भावः
(स्वो० व्या) मुत्पद्यते, अन्यथा सर्व क्षणिकमिति प्रतिज्ञाव्याघातः। ततः-एवं व्यवस्थिते सति तत्वरूपाद्यननुवेधतुल्यतायां सत्यामयमेवास्य हेतुः तथा इदमेव चास्य फलमिति कुतोऽयं नियमः। न कुतश्चिदित्यर्थः। विधूय मोहतिमिर-१५ मालोच्यतामेतदिति । आह-किमत्रालोच्यम् । तत्स्वभावत एवहेतुफलखमावत एव तन्नियमसिद्धेः-हेतुफलभावनियमसिद्धेः सर्वस्य सुस्थितत्वात् किमत्रालोच्यमिति ? । एतदेव भावयति तथाहीत्यादिना । तथाहीति पूर्ववत् । तयोरेव हेतु-फलयो-विवक्षितयोः स खभावो येन-स्वभावेन स एवविवक्षितः तस्यैव-विवक्षितस्य हेतुः, तदेव च-विवक्षितं तस्यैव-विवक्षितस्य २० हेतोः फलमिति । अतः अस्मात् स्वभावात् अशेषतत्कालभाविभावसाधारणत्वेऽपि कस्येत्याह-तदनन्तरभावित्वस्य । अपरत्र-अविवक्षितहेत्वादौ तत्वभावत्वाभावात् कारणात् अस्यैव-तत्स्वभावत्वस्य नियमहेतुत्वात् कारणात् तद्भावसिद्धिः-हेतुफलभावसिद्धिरिति । एतदेव भावयति तथाहीत्यादिना । तथाहीति पूर्ववत् । तस्यैवासी खभावः कारणस्य येन-२५ स्वभावेन तदनन्तरं भवत्-कारणानन्तरं भवत् तदेव-विशिष्टं तत् कार्यमितरदेव च विवक्षितं तत्कारणं-विवक्षितकार्यकारणं नान्यत् तदनन्तरभावित्वे सत्यपि इति । एतदाशझ्याह-अत्रोच्यते-एतदपि यत्किञ्चित्-असारम् । कुत इत्साह-अन्वयापत्तेः, अन्यथा अन्वयापत्तिमन्तरेण शब्दार्थायोगात् ।
१ तदभावसिद्धेरिति' इति ग-पाठः ।
अनेकान्त. २२