________________
१६८ अनेकान्तजयपताकाख्यं प्रकरणम्
[षष्ठः (मूलम् ) मात्रत्वान्न कश्चिद् दोष इति । एतेन 'कारणानां भिन्नेभ्यः स्वभावेभ्यः कार्यस्य भिन्ना एव विशेषाः' इत्येतदपि प्रत्युक्तमिति । अत्रो५च्यते-तदिदं पिशाचभयात् पितृवनसमाश्रयणम् । नहि कथञ्चित् हेतुखभावसङ्क्रान्तिमन्तरेणासत्सद्भवनापत्त्या कार्यभाव एव युज्यत इत्युक्तप्रायम् । स उपलभ्यत इति चेत्, को वा किमाह ? कथं न युज्यत इति ? भवन्नीत्या वेदितम् । कश्चायं तत्प्रतीत्योत्पादः? तदनन्तरभावित्वम् । नेदं क्षणिकैकान्तवादिनोऽशेषतत्कालभावि१० भावसाधारणत्वेन तदभावसिद्धये, नियमहेत्वभावात् । तथाहिविवक्षितहेतुक्षणानन्तरं तत्कालभावि सर्वमेव भुवनोदरगतं क्षणजातमुत्पद्यते, ततस्तत्वरूपाद्यननुवेधतुल्यतायामयमेवास्य हेतु
(खो० व्या०) यदा तु-यदा पुनः तत्प्रतीत्योत्पादत:-तेभ्यः प्रतीत्योत्पादनेन तद्भावः तावत् १५ कार्यभावस्तदा-तस्मिन् काले हेतूनां निमित्तमात्रत्वात् कारणात् न कश्चिद्
दोष इति । एतेनेत्यादि । एतेन-अनन्तरोदितेन कारणानां रूपादीनां भिन्नेभ्यः स्वभावेभ्यः कार्यस्य-विज्ञानादेः भिन्ना एव विशेषा:-रूपा तदाभासतेत्ये
मादय इत्येतदपि प्रत्युक्तं-परिहृतमिति । अत्रोच्यते-तदिमित्यादि । तदिदं-लोकप्रवादनिबन्धनं पिशाचभयात् पितृवनसमाश्रयणम् । अत्राधि२० कृतदोषसम्भवः । एतदेवाह न हीत्यादिना । न यस्मात् कथञ्चित्-केनचित् प्रकारेण हेतुखभावसङ्क्रान्तिमन्तरेण असत्सद्भवनापत्त्या प्रमाणविरुद्धकार्यभाव एव युज्यत इत्युक्तप्रायं-प्रायेणोक्तम् । स उपलभ्यत इति चेत् कार्यभावः। एतदाशक्याह-को वा किमाह ? । उपलभ्यत एव । कथं न युज्यत इति परः । भवन्नीत्या वेदितमिति ग्रन्थकारः । कश्वायं तत्प्रतीत्योत्पाद २५ इति प्रश्नः। तदनन्तरभावित्वमिति परवचनम् । नेदं-तदनन्तरभावित्वं
क्षणिकैकान्तवादिनोऽशेषतत्कालभाविभावसाधारणत्वेन हेतुना तभावसिद्धये, प्रक्रमात् हेतुफलभावसिद्धये । कुत इत्याह-नियमहेत्वभावात् । एनमेव स्पष्टयन्नाह तथाहीत्यादिना । तथाहीत्युपप्रदर्शने । विवक्षितहेतुक्षणानन्तरं तत्कालभावि सर्वमेव भवनोदरगतं क्षणजात
१ 'तत्प्रीत्योत्पादः' इति ग-पाठः। २ 'प्रवाहनिबन्धनं' इति ङ-पाठः। ३ 'परवचनम्' इति उ-पाठः।