________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
१६७ (मूलम्) चेत्, न, तावद्भयस्तावदुत्पादे सर्वेषामेकखभावता । तथैकोपयोगित्वं कार्याणां निरंशता प्रकटो जातिभेदस्तदेकैकापेक्षया सामग्रीभेदश्चेति शोभनमदुःस्थितत्वम् । अभिन्नतावत्स्वभावजत्वे ह्य- ५ मीषां तदन्यतरवत् सर्वेषां तत्तुल्यतापत्तिः तत्वभाववैचित्र्यं वेत्यलङ्घनीया न्यायमुद्रा ॥
स्यादेतद्धतुखभावसङ्क्रान्तिपंक्षेऽयं दोषः। तत्र हि तस्यैव तथाभवनमिति कार्यतुल्यता, अत एव च तत्वभाववैचित्र्यं वेत्यनिवारितमेतत् । यदा तु तत्प्रतीत्योत्पादतस्तद्भावस्तदा हेतूनां निमित्त-१०
(स्वो० व्या० ) खभावत्वात्-अखिलरूपालोकादिजननस्वभावत्वात् अदु:स्थित इति चेत् फलभेदः । एतदाशङ्कयाह-नेत्यादि । न तावद्भयः-हेतुभेदेभ्यो रूपादिभ्यः तावदुत्पादे-अनेकरूपादिफलोत्पादे । किमित्याह-सर्वेषां-रूपालोकादीनां एकस्वभावता विवक्षितनिर्भागैककार्यापेक्षयाऽङ्गीकृता । तथैकोपयोगित्वं विवक्षित- १५ निर्भागैककार्यापेक्षमङ्गीकृतमेव । तथा कार्याणां निरंशता निर्भागैकरूपतया अनेकप्रतीत्यभावेऽपि, तथा प्रकटो जातिभेदः कार्याणामेव रूपादित्वेन तदेकैकापेक्षया कार्याण्यधिकृत्य सामग्रीभेदश्चेति शोभनमदुःस्थितत्वम् , उक्तदोषेभ्यो नादुःस्थितत्वमित्यर्थः। सकलपिण्डार्थमाह-अभिन्नतावत्खभावजत्वेएकस्वभावानेकरूपादिखभावजत्वे यस्मात् अमीषां-कार्याणां तदन्यतरवत्-२० रूपायन्यतरवत् सर्वेषाम्-आलोकादीनां तुल्यतापत्तिः अभिन्नतावत्स्वभावजत्वादेव येभ्य एव स्वभावेभ्यो रूपमुत्पन्नं तेभ्य एवालोकादय इत्यपि कृत्वा तत्वभाववैचित्र्यं वा तेषामेव-हेतुभेदानां रूपादीनां स्वभाववैचित्र्यं वा । एतेन 'तथाविधसर्वजननस्वभावाः' इत्यपि व्युदस्तम् , बलात् तद्वैचित्र्यापत्तेः । इति एवमलचनीया न्यायमुद्रा। एतल्लङ्घने न्यायभेद इति भावनीयम् ॥
२५ स्यादेतत्-अथैवं मन्यसे हेतुखभावसङ्क्रान्तिपक्ष एव कार्ये अयं दोषःअनन्तरोदितः। तत्र यस्मात् हेतुसङ्क्रान्तिपक्षे तस्यैव-हेतोः तथाभवनं कार्यरूपतया इति-एवं कार्यतुल्यता, अत एव-तत्तथाभवनात् तत्वभाववैचित्र्यं "वेति-सर्वेषां सर्वजननस्वभाववैचित्र्यं वेति अनिवारितमेतद् भवत्येवेत्यर्थः ।
'पक्षे ह्यय' इति क-पाठः । २ 'एतेन न तथा.' इति क-पाठः। ३ 'भावनीयः' इति कुपाठः। ४ 'चेति' इति रु-पाठः। ५ 'चेत्यनि०' इति -पाठः।