________________
१६६ अनेकान्तजयपताकाख्यं प्रकरणम्
[षष्ठः (मूलम्) तदैव( क ?)खसन्ततावपि चक्षुराद्युत्पत्तेः। न च रूपं येन खभावेन
सभागक्षणं जनयति तेनैव विसभागक्षणमालोकादि, एकस्या५नेकजनकवायोगात्, योगेऽपि तत्तुल्यतापत्तेः, अतुल्याश्च रूपालोकादयः, न च कारणाभेदे कार्यस्य भेद इति युक्तम् , अभ्युपगमप्रकोपात्, इष्टश्वायम्, तत एव सर्वतत्पसूतेः । न चोपादाननिमित्तभेदतस्तत्र सामग्रीभेदः, तेषामेकखभावत्वात् तत्कल्पना
बीजाभावात्; अन्यथां तद्भिन्नख भावतापत्तिः । इति तदभेदादपि १० फलभेदो दुःस्थित एव । सर्वेषां सर्वजननखभावत्वाददुःस्थित इति
(खो० व्या) अस्ति चायं-तदपरोदयः । कुत इत्याह-तदैकखसन्ततावपि हेतुभेदेभ्यः चक्षुराद्युत्पत्तेः। न चेत्यादि । न च रूपं येन खभावेन सभागक्षणंरूपक्षणमेव जनयति तेनैव विसभागक्षणमालोकादि । 'आदि'शब्दात् ५ चक्षुरादिग्रहः । कुतो नेत्याह-एकस्य-कारणभेदस्य अनेकजनकत्वविरोधात् एकस्वभावतया । योगेऽपीत्यादि। योगेऽप्यनेकजनकत्वस्य किमित्याह-तत्तुल्यतापत्तेः-अनेकतुल्यतापत्र्हेत्वभेदादित्यर्थः । अतुल्याश्च रूपालोकादयोऽनेके । न चेत्यादि । न च कारणाभेदे सति तत्त्वतः कार्यस्य भेद इति युक्तम् । कुत इत्याह-अभ्युपगमप्रकोपात् । इष्टश्चार्य-कारणाभेदे कार्यभेदः । कथ२० मित्याह-तत एव-तेभ्य एव रूपालोकादिभ्यो विवक्षितनिर्भागैककार्यजननस्वभावेभ्यः
सर्वतत्प्रसूतेः सर्वेषां तेषां-रूपालोकादीनां वसन्ततावुत्पत्तेः । न चेत्यादि । न च उपादान निमित्तभेदतो रूपे रूपमुपादानमालोकादयो निमित्तं आलोकादिष्वप्यालोकादयः उपादानं रूपादयो निमित्तमित्येवं तत्र-समग्रेषु सामग्रीभेदः। कुतो नेत्याह-तेषां-हेतुभेदानां रूपादीनामेकखभावत्वात् अत एव तत्कल्प२५ नावीजाभावात्-उपादाननिमित्तकल्पनाबीजाभावात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा-एवमनभ्युपगमे तद्भिन्नखभावतापत्तिः तेषां-हेतुभेदानां रूपादीनां भिन्नखभावतापत्तिः, न येनैव स्वभावेनोपादानं तेषां तेनैव निमित्ततेति अभिधानमात्रभेदापत्तेः । इति-एवं तद्भेदादपि-सामग्रीभेदादपि फल भेदः-रूपालोकादिःस्थित एव । सर्वेषामित्यादि । सर्वेषां हेतुभेदानां रूपादीनां सर्वजनन
१ अपि च चक्षु०' इति ग-पाठः। २ राधुपपत्तेः' इति ग-पाठः। ३ विभागक्षण.' इति ग-पाठः। ४ 'त्वामोगात्' इति ग-पाठः। ५ 'भेदात् तत्र' इति ग-पाठः। ६ “चार्य' इति
क-पाठः।