________________
अधिकारः]
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम
(मूलम्)
क्यम् । यदा पुनः कारणानि स्वस्मिन्नेव स्वभावे व्यवस्थितानि कार्यमुत्पादयन्ति तदा कोऽयोगः ? । न च हेतोः फलात्मापत्तिः प्रतीतिसिद्धाऽपि, बीजादेर्विसदृशाङ्करादिवेदनादिति । अन्रोच्यते- ५ सोऽयमषण्डत्वलक्षणोऽपत्यजन्मविरोधी दोषः । तथाहि-हेतोः फलात्मापत्या तत्स्वभावत्वपुंस्त्वे सति तत्तथाभवनेनाभवत् कार्या पत्यं खस्वभावानवस्थित्यपुंस्त्वयुक्ताच्छुक्रायभावे असत् सद् भवतीत्यपि सुभाषितमेतत् । न च सर्वेषां तदेकजननवभावत्वे तदपरोदयो न्याय्यः, तत्रैव सामर्थ्यनिरोधात् । अस्ति चायं ०
(खो० व्या०) कारणानि स्वस्मिन्नेव स्वभावे व्यवस्थितानि तत्स्वभावतया कार्यमुत्पादयन्ति तदा कोऽयोगः । न कश्चित् । न च हेतोः फलात्मापत्तिः प्रतीतिसिद्धाऽपि लोके । कथमित्याह-वीजादेर्विसदृशाङ्कुरादिवेदनादिति । अत्र-परोपंन्यस्ते उच्यते-सोऽयमषण्डत्वलक्षणोऽपत्यजन्मविरोधी ५ दोषः । अदोष एव दोष इत्यर्थः । एतदेव भावयति तथाहीत्यादिना । तथाहीति पूर्ववत् । हेतोः फलात्मौपत्या हेतुभूतया तत्वभावत्वपुंस्त्वे सति अन्वय"सिद्धे हेतोस्तत्तथाभवनेन-हेतोः फलभवनेन अभवत् कार्यापत्यं दैवयोगतः खखभावानवस्थितिरेव तुच्छा अपुंस्त्वं तेयुक्ता निरन्वयनाशेन हेतोरिति वर्तते शुक्रायभावे तत्स्वभावत्वक्षयेण असत् सद् भवति-अभाव एव भावतां प्रतिपद्यत २० इत्यपि सुभाषितमेतत् , सबीजं न भवत्यबीजं तु भवतीति योऽर्थः । न चेत्यादि । न च सर्वेषां हेतुभेदानां तदेकजननस्वभावत्वे, विवक्षितनिर्भागैककार्यजननस्वभावत्व इति भावः, तदपरोदय:-कार्यान्तरोत्पादो न्याय्यः । कथमित्याहतत्रैव-विवक्षितकार्ये सामर्थ्यनिरोधात्, अन्ययोगव्यवच्छेदनिरोधादित्यर्थः ।
(विवरणम्) (२४) अन्ययोगव्यवच्छेदनिरोधादित्यर्थ इति । अन्ययोगस्य-कार्यान्तरजननसम्बन्धलक्षणस्य व्यवच्छेदः अभावोऽन्ययोगव्यवच्छेदेन वि(?नि)रोधात् कार्यान्तरजननसामर्थ्यस्य ॥
१ 'सामर्थ्यविरोधात्' इति क-पाठः । २ 'पन्यास्त' इति उ-पाठः। ३ 'स्मापत्यो हेतुभूतया.' इति क-पाठः। ४ 'सिद्धिः हेतो.' इति -पाठः। ५ 'तद्युक्तवन्निर०' इति क-पाठः।