________________
१६४ अनेकान्तजयपताकाख्यं प्रकरणम्
[षष्ठः (मूलम्) तथापि निरंशत्वाद् वस्तुरूपस्य भागश उत्पादनं नेष्टमेवेत्यप्रसङ्ग एव । एतदप्ययुक्तम् , उक्तदोषानतिवृत्तेः, अनेकस्मादेकोत्पादा. ५योगाच । तथाहि-भिन्नेभ्यस्तुल्यसामर्थ्येभ्योऽतुल्याभिन्नभावे कथमविरोध इति चिन्त्यम् । स्यादेतत्-किमत्र चिन्त्यते ? एकस्मिन्नधिकरणे भेदाभेदयोर्विरोधात्। इह तु कारणं भिन्नं कार्य चाभिन्नमिति को विरोधः? । अपि च हेतोः फलात्मापत्या कार्यकारणभावव्यवस्थायां स्यादनेकस्मादेकोत्पत्ययोगो यथा परमते । तत्र धेको हेतु: १० फलात्मतां प्रतिपन्न इत्यपरस्य कार्यात्मन्यवकाशासम्भवादानर्थ
(स्वो० व्या०) अथ न खण्डशो जनकः-खण्डं खण्डं प्रति जनकः कारणभेदः स्यादित्ययमर्थः, तथापि-अत्राप्यर्थे निरंशत्वाद् वस्तुरूपस्य भागश उत्पादनं नेष्टमेव, निर्भागैककार्यकारणस्वभावेभ्योऽनेकेभ्यस्तथाविधैकोत्पत्तेः । इति-एवमप्र१५ सङ्ग एव उक्तदोषलक्षणः । एतदाशझ्याह-एतदप्ययुक्तम्-अनन्तरोदितम् । कुत इत्याह-उक्तदोषान तिवृत्तेः कारणात् । अभ्युच्चयमाह-अनेकस्मादित्यादि । अनेकस्मात् कारणात् स्वमतभेदापेक्षया एकोत्पादायोगाच । एतदेव भावयति तथाहीत्यादिना । तथाहीति पूर्ववत् । भिन्नेभ्यस्तुल्यसामर्थ्येभ्यः,कारणभेदेभ्य इति प्रक्रमः, अतुल्याभिन्नभावे सति कार्यस्य कथमविरोध इति चिन्त्यम् । २० स्यादेतत्-किमत्र चिन्त्यते ? एकस्मिन्नधिकरणे-आधारे भेदाभेदयोविरोधात् । इह तु कारणं भिन्नमनेकसमग्रभेदं कार्य चाभिन्न-निर्भागैकरूपमिति को विरोधः ? । अपि च हेतोः फलात्मापत्त्या तत्तथाभावेन कार्यकारणभावव्यवस्थायां सत्यां स्यादनेकस्मात् कारणात् एकोत्पत्त्य
योगो यथा परमते-त्वाममधिकृत्य । एतदेव भावयति तत्र हीत्यादिना । २५ तत्र यस्मात् एको हेतुः फलात्मतां प्रतिपन्न इति कृत्वा अपरस्य-हेतोः कार्यात्मनि अवकाशासम्भवात् कारणात् आनर्थक्यम् । यदा पुनः
(विवरणम्) (२०-२१) एकस्मिन्नधिकरणे आधारे भेदाभेदयोर्विरोधादिति । एकमेव कार्य कथं भिन्नमभिन्नं च भवतीत्यर्थः ॥ ३० (२१) अनेकसमग्रभेदमिति । रूपालोकाद्यनेकसमग्रभेदस्वभावं कारणमित्यर्थः ॥
१ 'फलात्मना' इति क-पाठः ।