________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) इति वाच्यम् । स्यादेतत्-भेदाविशेषेऽपि कुतश्चिदात्मातिशयात् कश्चिजनका, नान्ये। स हि तस्यैव स्वभावः, नान्येषाम् , तथाविधहेत्वभावादिति । एतदप्यसत्, तदन्वयोपलब्धिमन्तरेण तावतां तत्- ५ स्वभावत्वनियमे तप्तमाषकव्यतिरेकेण प्रतिपादनोपायाभावात् ॥
किश्चैवमप्यनेकैककारणे न कारणभेदो भेदकः स्यादित्यनिवृत्तः प्रसङ्गः। स्यादेतत्-कः पुनरत्र प्रसङ्गार्थः ? । यदि न विशेषक: स्यादित्ययमर्थः, तदप्ययुक्तम् , विजातीयानेकव्यावृत्तिमतः कार्यखभावस्योत्पादनात् । अथ न खण्डशो जनकः स्थादित्ययमर्थः, १०
(खो० व्या०) तस्मात्-आद्यकारणभेदाद् भिन्नः सन् स एव करोति तदपरः कारणभेदः तत्सामग्र्यन्तर्गतः, नान्ये-परसामग्र्यन्तर्भूताः । को पत्र भेदाविशेषे सति विशेष इति वाच्यमेतदित्यतिप्रसङ्गः । स्यादेतदित्यादि । स्यादेतत्-अथैवं मन्यसेभेदाविशेषेऽपि सति कुतश्चिदात्मातिशयात्-आत्मधर्मात् कश्चित्-कारण-१५ भेदो जनकः तत्सामयन्तर्गत एव, नान्ये-तदपरसामग्र्यन्तःपातिनः । किमित्येतदेवमित्याह-स हि तस्यैव स्वभावो विवक्षितकारणभेदस्य, नान्येषां तदपरसामग्र्यन्तःपातिनाम् । कुत इत्याह-तथाविधहेत्वभावात्, हेत्वायत्तश्च कारणभेदस्य तत्स्वभाव इति । एतदप्यसत् परोदितम् । कथमित्याह-तदन्वयोपलब्धिमन्तरेण तेषां-कारणभेदानां विशिष्टसामग्र्यन्तोऽन्वयोपलब्धिमन्तरेण निरन्वय-२० नश्वरतया तावतां तत्स्वभावत्वनियमे सति । किमित्याह-तप्तमाषकव्यतिरेकेण तप्तमाषकः-शपथविशेषः तमन्तरेण प्रतिपादनोपायाभावात् , निरन्वयानन्तरभावित्वमात्रस्य तदन्याविशेषादित्यर्थः ॥
अभ्युच्चयमाह किश्चेत्यादिना । किञ्च एवमपि-उक्तनीत्या अनेकेषामेककारणे सति । किमित्याह-न कारणभेदो भेदकः स्यात् । इति-एवमनिवृत्तः २५ प्रसङ्ग उक्तदोषलक्षणः । स्यादेतदित्यादि । अथैवं मन्यसे-कः पुनरत्र-न कारणभेदो भेदकः स्यादित्युक्तौ प्रसङ्गार्थः । यदि न विशेषकः स्यात् कारणभेद इत्ययमर्थः । एतदधिकृत्याह-तद(प्य)युक्तम् । कथमित्याह-विजातीयानेकव्यावृत्तिमतः कार्यखभावस्य अधिकृतस्य-उत्पादनात् कारणभेदानाम् ।
१ वमप्य तर्हि तद्भिन्नः स एव करोति नैकैककरणेन न कारणभेदो' इति क-पाठः प्रक्षेपमिश्रो भाति । २ 'मप्यनेकैः करणे न कारणमेदो' इति ग-पाठः ।