________________
[षष्ठः
१६२
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् ) एकस्माद्धि जनका व्यावर्त्तमानस्तद्रूपो न स्यानातत्का, तेनैव तत् कार्य कर्त्तव्यमिति कोऽत्र न्यायः" इत्यादि सर्व प्रतिक्षितम् , ५उक्तवदतद्रूपस्य तत्कार्यत्वविरोधात् । तेनैव तत् कार्य कर्त्तव्यमिति निरंशत्वे सति ततो भावस्यैव न्याय्यत्वात् कृतकरणेऽतिप्रसङ्गात् । तथाहि-तद्भिन्नः स एव करोति, नान्ये । को पत्र भेदाविशेषे विशेष
(खो० व्या०) विवक्षितकारणभेदस्य तदन्यारूपत्वादिति । तद्यथाखं-यथाऽऽत्मीयं भिन्नाश्च ते १० कारणभेदाः-रूप-बीजादयः जनकाश्च स्वभावेन-स्वसत्तया । इत्थं चैतदङ्गीकर्त्तव्यमित्याह-एकस्माद्धीत्यादि । एकस्माद् यस्मात् जनका व्यावर्त्तमानः कारणभेदः विवक्षितसामग्र्यन्तर्गतः । किमित्याह-तद्रूपो न स्यात्-आद्यकारणभेदरूपो न स्यात्-न भवेत् नातत्कार्य:, किन्तु तत्कार्य एव, तत्-विवक्षितं निर्भागैकरूपमनेकोद्भवं कार्यमस्येति तत्कार्यस्तस्य प्रतिषेधो न तत्कार्यः अतत्कार्यस्तदयं १५ नातत्कार्यों भवेत् । एतदेव द्रढयन्नाह-तेनैव-चायेन कारणभेदेन तत् कार्य
कर्तव्यमिति कोऽत्र नियमः ? ! अनेकोद्भवस्वभावं न तत एवं(?व) भवतीत्यभिप्रायः । इत्यादि सर्व-वार्तिकोक्तम् । किमित्याह-प्रतिक्षिप्तम् । कुत इत्याहउक्तवत्-यथोक्तम् । तथाहि-'य एकेन जन्यते स एवापरेणापि' इत्यादि तथा
अतद्रूपस्य-कारणभेदस्य तत्कार्यत्वविरोधात्-आद्यकारणभेदकार्यत्वविरोधात् २० चर्चितमेतदिति। तेनैव च-आद्येन कारणभेदेन तत् कार्य-विवक्षितं निर्भागैकरूपं
कर्तव्यमिति नियम एष परनीत्या । कथमित्याह-निरंशत्वे सति कार्यस्य निर्भागैकरूपतया ततः-आद्यात् कारणभेदाद् भावस्यैव-कार्यभावस्य न्याय्यत्वात् कारणात् आद्यकारणभेदेनैवासौ कृत इति कृतकरणेऽतिप्रसङ्गात् कार्यभावस्य । एतदेव भावयति तथाहीत्यादिना । तथाहीति पूर्ववत् । (तद्भिन्नः)
(विवरणम्) (९) तदन्यारूपत्वादिति । न विद्यते रूप-स्वभावो यस्यासावरूपस्तदन्येनउक्तव्यतिरिक्तेन कारणभेदान्तरेणेत्यर्थः, अरूप:-अस्वभावस्तस्य भावः-तत्त्वं तस्मात् । अनेकोद्भवनस्वभावं न तत एव भवतीत्यभिप्रायः । अनेकेभ्यः कारणेभ्य
उत्पत्तिस्वभावं कार्य एकस्मादेव कारणान्न भवतीत्यर्थः ॥ ३० (१९) अतद्रूपस्य कारणभेदस्येति । आद्यकारणाभावस्य ॥
१ वार्तिके। २ 'दृढयन्' इति क-पाठः। ३ द्रष्टव्यं १६०तम पृष्ठम् । ४ 'तेनैव वोद्येत() कारण.' इति उ-पाठः ।