________________
स्वोपज्ञ व्याख्यामुनि चन्द्रीय विवरणयुतम्
( मूलम् )
तद्वन्न पुष्कलं वैलक्षण्यमन्यजन्य विविक्ततया वैतरस्य तज्जन्यता अन्यजन्यत्वे अपि तु तदसिद्धेरतिप्रसङ्गादिति नोभयो रूपनियमः । एकाजनकत्वे च सर्वाजनकत्वमित्यहेतुकतद्भावापत्त्या न ५ न्यायानुसारि विकल्पितमिति भावनीयम् ॥
एतेन " न ब्रूमोsन्यस्य तज्जनकं रूपं नास्तीति किन्तु यत् तदेकस्य जनकं तदन्यस्य नेति; अन्योऽपि स्वरूपेणैव जनको न पररूपेणेति, अतद्रूपत्वात्; तद्यथाखं भिन्नाश्च जनकाश्च खभावेन,
अधिकारः ]
१६१
( खो० व्या० )
जनकत्वे च - आद्यकारणभेदस्वभावजन्यजनकत्वे च तस्य स्वभावान्तरस्य तद्वत्आद्यकारणभेदस्वभाववत् न पुष्कलं 'वैलक्षण्यं कारणभेदान्तरस्वभावस्य तथा अन्यजन्यविविक्ततया वेतरस्य - कार्यस्वभावस तज्जन्यता - आद्यकारणभेदस्वभावजन्यता अन्यजन्यत्वे अपि तु कारणभेदान्तरस्वभावजन्यत्वेऽपि तु तदसिद्धेः - इतरस्य तज्जन्यताऽसिद्धेः । असिद्धिश्व अतिप्रसङ्गात् - अनिष्टस्यापि १५ तज्जन्यतापत्तेः । इति एवं नो भयोरपि - इष्टजन्यजनकयोः रूपनियमः, स्वभावनियम इत्यर्थः । एकाजनकत्वे च उक्तदोषभयादिष्यमाणे सर्वाजनकत्वं तद्वदन्येषामप्यजनकत्वात् तत्स्वभावत्वाभ्युपगमात् । इति - एवमहेतुकतद्भावापत्त्याविवक्षित कार्यभावापत्त्या न न्यायानुसारि विकल्पितमिति भावनीयमेतत् ॥
एतेनेत्यादि । एतेन - अनन्तरोदितेन न ब्रूम इत्यादि यावत् कोऽत्र न्याय इत्यादि २० सर्वं प्रतिक्षिप्तमिति सम्बन्धः । नमोऽन्यस्य कारणभेदस्य तज्जनकं विवक्षितनिर्भागैककार्यजनकं रूपं नास्तीति किन्तु यत् तदेकस्य जनक कारण भेदस्य तदन्यस्य-कारणभेदस्यैव नेति । किमुक्तं भवति ? । अन्योऽपि स्वरूपेणैव जनकः, न पररूपेण, कारणभेदान्तररूपेणेति । कुत इत्याह- अतद्रूपत्वात्( विवरणम् )
(१३) अन्यजन्य विविक्ततया "वेति । अन्येषां प्रथमकारणव्यतिरिक्तानां कारणविशेषाणां यानि जन्यानि - कार्यान्तराणि तान्यन्यजन्यानि तेभ्यो विविक्तता -- भेदस्तया वा ॥
(२२) यत् तदेकस्य जनकं कारणभेदस्येति । यत् तदेकस्य-कारणभेदस्य सम्बन्धि जनकं रूपम् ॥
१ 'तन पुष्कलं ' इति ग - पाठः । २ 'चेतरस्य ' इति म-पाठः । ३ 'बैलक्षणं' इति ङ-पाठः । ४ ' तथा चेतरस्य ' इति क - पाठः । ५ 'चेति' इति ङ-पाठः ।
अनेकान्त० २१
२५
३०