SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ अनेकान्तजयपताकाख्यं प्रकरणम् (मूलम् ) उपहासस्थानमार्याणामित्यनुद्धोष्यैव तैः । तथाहि-य एकेन जन्यते स एवापरेणापि न खलु स तस्य स्वभावस्तदपरत्वानापत्तेः, ५ स्वभावान्तरस्य च तदपरखभावजन्यजनकत्वविरोधः, उभयतत्त्वहाने:, तद्वैलक्षण्याद्धि तैस्य स्वभावान्तरत्वं तज्जन्यजनकत्वे च ( खो० व्या० ) उपहासस्थानमार्याणामिति कृत्वा अनुद्धोष्यैव तैः - आयैः । एवं वक्रोक्तिमात्रमभिधायैतद्भावार्थमाह तथाहीत्यादिना । तथाहीत्युपप्रदर्शने । यः - कार्य स्वभाव १० एकेन जन्यते, कारण भेदेनेति प्रक्रमः, स एवापरेणापि इति परमतम् । एतच्चासदित्याह-न खलु-नैव सः - आद्यकारणभेदखभावः तस्य - अपरस्य कारणभेदस्य स्वभावः । कथं नेत्याह- तदपरत्वानापत्तेः, आद्यकारणभेदात् अन्यत्वानापत्तेः स्वभावाभेदेन । स्वभावान्तरस्य च - कारणमेदान्तरगतस्य तदपरस्वभावजन्यजनकत्वविरोधः- आद्यकारणभेदस्वभावजन्यजनकत्वविरोधः, कारण भेदान्तरस्व१५ भावस्येत्यर्थः । कथमित्याह-उभयतत्त्वहानेः - कार्यकारणभेदान्तरगतस्वभावहानेः । एतदेवाह तद्वैलक्षण्याद्धीत्यादिना । तद्वैलक्षण्यात्- आद्यकारणभेदस्वभाववैलक्षण्याद् यस्मात् तस्य-कारणभेदान्तरगतस्य स्वभावान्तरत्वं भिन्नत्वं तज्जन्य १६० [ षष्ठः (विवरणम् ) ततो माहेश्वरजायाजारश्वासौ कारणिक निवेदितञ्चासौ पृष्टभौतश्च तस्य सिद्धसाध्यता २० स्वयं विहिता कार्यभ्युपगमरूपा तत्कल्पेयं - प्रस्तुता सिद्धसाध्यता ॥ (१३) स्वभावाभेदेनेति । यदि हि य एव कार्यस्वभाव आद्येन कारणेन जन्यते स एवापरेणापीत्यभ्युपगम्यते तदा कारणयोः स्वभावस्याभेदादैक्यमेव भवेदिति ॥ (१४) आयकारणभेदस्वभावजन्यजनकत्वविरोध इति । आद्यश्चासौ कारणभेदस्तस्य सम्बन्धी स्वैभावस्तेन जन्यो यः कार्यस्वभावः तज्जनकत्वविरोधः कारण२५ भेदान्तरगत स्वभावान्तरस्य । कार्यकारणभेदान्तरगतस्वभावान्तरस्य ॥ (१५) कार्यकारणभेदान्तरगत स्वभावहानेरिति । प्रथमकारणभेदस्वभावहारिति । प्रथमकारणभेदस्वभावमपहाय अन्यकारणभेदान्तरस्वभावः कोऽपि नास्ति यः प्रथमकारणभेदस्वभावजनिते कार्ये व्यापिपृयात्; तथा प्रथमकारणभेदस्वभावजनितं कार्यं स्वभावमपहाय अन्यः कश्चित् तस्य स्वभावविशेषो नास्ति योऽन्येन ३० कारणस्वभावभेदेन जन्यते, तस्य परिपूर्णप्रथमकारणस्वभावतयोत्पत्तेरिति ॥ १ 'उभयत्वहानेः' इति ग-पाठः । २ ' तस्य भावान्तरत्वं' इति ग-पाठः । ३ ' अन्यत्वापत्तेः' इति ङ-पाठः । ४ ' कारणान्तरभेदा ०' इति इ-पाठः । ५ ' स्वभाव (म ) पहायान्यः कश्चिस्ते ( तू ते) न जन्यो' इति ख- पाठः ।
SR No.008406
Book TitleAnekantajay patakakhyam Prakaranam Part 2
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1947
Total Pages503
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy