________________
अधिकारः] स्वोपझव्याख्यामुनिचन्द्रीय विवरणयुतम्
(मूलम्) जन्मासादयेत्, एकतोऽपि तस्य सर्वात्मनोत्पत्तेस्तदपरैस्तदकरणात् । सर्वभूतिखभावत्वात् तस्यायमदोष इति चेत् किमिदं तत्प्रत्येकतातोऽन्यत् तत्सर्वत्वं नाम ? ते च सर्वे जनका ५ नैकोऽप्यजनक इत्युक्तदोषानतिवृत्तिः। यत एव सर्वे जनका अत एव नानतिवृत्तिरिति चेत् , यस्तखें केन कार्यस्य स्वभावो जन्यते, स एवापरेणापीत्येतत् प्राप्तम् । अस्त्येतत् सिद्धसाध्यतेति चेत्, माहेश्वरजायाजारकारणिकनिवेदितपृष्टभौतसिद्धसाध्यताकल्पेयम्
(खो० व्या०) मनेकेभ्यः-कारणभेदेभ्यो जन्मासादयेत् ? नैवेत्यर्थः । एतदेव भावयति एकतोऽपीत्यादिना । एकतोऽपि--एकस्मादपि कारणभेदात् तस्य-अधिकृतकार्यस्य सर्वात्मनोत्पत्तेर्निर्भागैकरूपतया तदपरैः-कारणभेदैः तदकरणात्, अधिकृतकार्याकरणादित्यर्थः । सर्वेत्यादि । सर्वभूतिखभावत्वात् सर्वेभ्यः-कारणभेदेभ्यः उत्पत्तिस्वभावत्वात् कारणात् तस्य-अधिकृतकार्यस्य अयमदोष इति १५ चेत्-अनन्तरोदितः । एतदाशङ्कयाह-किमिदमित्यादि । किमिदं तत्प्रत्येकतात:-कारणभेदप्रत्येकतातोऽन्यत्-अर्थान्तरं तत्सर्वत्वं नाम-अधिकृतकारणभेदसर्वत्वं नामेति । ते च सर्वे जनका-कारणभेदा नैकोऽप्यजनकः। इतिएवं उक्तदोषानतिवृत्तिः, 'निर्भागं कथमनेकेभ्यो जन्मासादयेत्' इत्यादि। यत एवेत्यादि । यत एव सर्वे जनका:-कारणभेदा अत एव हेतोः न अनति-२० वृत्तिः किन्त्वतिवृत्तिरेव, उक्तदोषस्येति प्रक्रमः। इति चेत्, एतदाशझ्याह-यस्तर्हि एकेन-कारणभेदेन कार्यस्य स्वभावो जन्यते स एवापरेणापि इत्येतत् प्राप्तम् । अस्त्येतत्-इत्थमेवेदं सिद्धसाध्यता । इति चेत्, एतदाशयाहमाहेश्वरेत्यादि । माहेश्वरजायायाः-पत्न्याः जारः कारणिकनिवेदितपृष्टश्चासौ भौतश्च तस्य सिद्धसाध्यता तत्कल्पेयं परोपन्यस्ता सिद्धसाध्यता २५
(विवरणम्) (९) माहेश्वरजायाजारकारणिकनिवेदितपृष्टभौतसिद्धसाध्यताकल्पेयमिति । अन्न वाक्ये एवं समासः कार्य:-माहेश्वरजायायां जारो माहेश्वरजायाजारः कारणिकैर्निवेदितः कारणिकनिवेदितः, पृष्टश्चासौ तैरेव कारणिकैभौंतश्च पृष्टभौतः,
१ 'त्मनोपपत्ते.' इति क-पाठः । २ 'खभूतिख०' इति क-पाठः। ३ 'साध्येती(?)ति चेतू' इति ङ-पाठः।