________________
अनेकान्तजयपताकाख्यं प्रकरणम्
( मूलम् )
उच्यते यत्किञ्चिदेतत्, न्यायानुपपत्तेः । तत्र यत् तावदुक्तम्'विलक्षणात् कारणकलापद्वयाद् विलक्षणमेव कार्यं जायते' ५ इत्यादि, अत्र न कारणकलापस्तत्कारणातिरिक्तस्तानि च भिन्नस्त्रभावानि कथं निर्भागेककार्यं प्रति नियतानि तद्भावे च (? वा ) कथं न व्याघातः, सर्वेषां तज्जननस्वभावत्वे नैकोऽपि न तजनकः तमन्तरेण तत्सर्वत्वायोगात्, निर्भागं च तदित्थं कथमनेकेभ्यो
१५८
[ षष्ठः
( खो० व्या० )
१० कुत इत्याह- हेतुधर्माननुकारात् । अननुकारश्चानेकान्वयेनैकस्मिन्, एकनियतत्वेन चानेकस्मिन्निति भावनीयमिति । एवं पूर्वपक्षमाशाह - अत्रोच्यते । किमित्याह-यत्किञ्चिदेतत्- असारमनन्तरोदितम् । कुत इत्याह- न्यायानुपपत्तेः । एनामेव दर्शयति तत्रेत्यादिना । तत्र यत् तावदुक्तं परेणादावेव | किं तदित्याह - 'विलक्षणात् कारणकलापद्वयाद् विलक्षणमेव कार्य १५ जायते' इत्यादि । अत्र - उक्ते न कारणकलापः सामग्र्याख्यः तत्कारणातिरिक्तः- वैशेषिकाणामिवावयवी तानि च कारणानि भिन्नखभावानि - रूपक्षित्यादीनि कथं निर्भागैककार्यं प्रति नियतानि स्वभावभेदादेवेत्यर्थः । तद्भावे वा - निर्भागैककार्यभावे वा कथं न व्याघातः ? व्याघात एव । कथमित्याह - सर्वेषां - कारणानां तज्जननखभावत्वे - निर्भागैककार्यजनन२० स्वभावत्वे नैकोऽपि - कारणभेदो व उज्जनकः-न विवक्षितकार्याजनकः, किन्तु जनक एव । कुत इत्याह-मन्तरेण एकं कारणभेदं सर्वस्वायोगात तेषां - कारणभेदानां सत्वायोगात् निर्भागं च तत् - कार्यमेकान्तैकस्वभावं इत्थं कथ
( विवरणम् )
तानि ज्ञानलक्षणे कार्ये जनकतयाऽन्वयेन व्यावृतानि तदा कथं तेभ्यो रूपाद्यन्य२५ तरकार्योत्पत्तिः स्यादिति ? ||
(१०) अनेकान्वये नै कस्मिन्निति । एकस्मिन् - ज्ञानलक्षणे कार्येऽनेकेषां - कार - णानामन्त्रयेन अनेकस्मादेकोत्पत्तावननुकारो वर्तते । एकनियतत्वे चानेकस्मिन् कार्येऽन्वये नानुकारः अनेकस्मादनेकोत्पत्तिपक्षे ॥
१-२ १५४ पृष्ठे १५५ तमे च । । ३ ' व्यावृत्तानि' इति क-पाठः । ४ ' रूपादन्य ०' इति ख- पाठः । ५ 'अनेकस्मादेकोत्पत्तिपक्षे एकनियतत्वेनानेकस्मिन्विति एकनियतत्वे च ज्ञानक्षणैक • कार्यनियतत्वे च कारणानां अनेकस्मिन् कार्येऽन्वयेनानुकारः' इति ख- पाठः ।