________________
अधिकार: ]
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
3
१५७
(स्वो० व्या० )
यिनः - आत्महेतुस्वभावानुविधायिनः, अन्वयजनकादित्यर्थः । अनेकस्मादनेकतावदिति निदर्शनं व्यतिरेकि । एकमनेकं 'चोपजायेत, अनेकान्वयतः एकत्वानुपपत्तेः एकनियतत्वेनानेकानुपपत्तेश्च । अत एवाह-न चोपजायेत । ५
( विवरणम् )
दन्यतरकार्यापेक्षया प्रतिनियतं किञ्चित् अनेकं वा रूपालोकमनस्कारचक्षुः समुदयरूपमुपजायते - निष्पद्यते । अयमभिप्रायः - यथाऽस्माभिरन्वयं विनैव अनेकस्मात्रूपालोकमनस्कारचक्षुर्लक्षणात् कारणादनेकेषां कार्याणां रूपालोकमनस्कारचक्षुरुत्तरक्षणलक्षणानां भावोऽभ्युपगम्यते, एवं यदि जैनैरनेकस्मात् कारणादन्वयेनैव जनका- १० देकस्यानेकस्य वा कार्यस्योत्पाद इत्यभ्युपगम्यते तदा भवति कार्यस्याहेतुकत्वप्रसङ्गः । तथाहि - यदि रूपालोकादयः कारणविशेषा ज्ञानलक्षणमेकं कार्यमात्मस्वरूपानुगमेन जनयन्ति तदा ज्ञानस्यैकता (हानिः ) चतुःस्वभावप्रवेशस्तत्र । स्वरूपालोकादिभिः कारणै रूपालोकादीनि कार्याण्यनेकान्यन्वयेनैव जन्यन्ते तर्हि ज्ञानादीनि कार्याणि प्रत्येकं चतुर्भिः रूपालोकादिभिरन्वयेन जन्यन्त इत्यायातम् । ततश्च [न] ज्ञानादावेव कर्तव्ये १५ तेषां स्वरूपानुगमेन व्यावृतानां कथमालोकादौ कार्यान्तरे व्यापारः परिकल्प्यमानः साधीयान् स्यादिति ? ॥
अथ वृत्त्यक्षराण्यनुश्रियन्ते - ( ३ - ४ ) अनेकतावदिति निदर्शनं व्यतिरेकीति । अन्वयमन्तरेण हि अनेकस्मादनेककार्य प्रसवपक्षोऽन्वयपक्षापेक्षया व्यतिरेकीति ॥
( ४ - ५ ) अनेकान्वयत एकत्वानुपपत्तेरिति । यदि हि रूपालोकमनस्कार- २० चक्षुषानेकेषां कार्ये ज्ञानलक्षणेऽनुगमः स्यात् तदा कथं तस्यैकत्वं स्यात् ? । अनेकेषां तत्र प्रवेशादिति अनेकस्मादेकोत्पादे दूषणम् ॥
अथानेकस्मादनेकोत्पादे ग्राह - ( ५ ) एक नियतत्वेनानेकानुपपत्तेश्चेति । एकत्र - ज्ञानाद्यन्यतरकार्ये नियतत्वं - जनकतया प्रतिनियतत्वमने (? मै) कनियतत्वं तेनाने (?) - कनियतत्वेन कारणानामनेकस्य कार्यस्यानुपपत्तेश्च - अघटनात् । यदि हि समप्राण्यपि २५
।
१ 'चोपजायते' इति ङ-पाठः । २ ' अनेक (का) न्वय एक०' इति ङ-पाठः । ३ 'चोपजायते' इति ङ - पाठः । ४ ' जायेत - निष्पद्येत' इति क- पाठः ५ ' रूपालोकादीनि कार्याण्यनेकाम्यन्वयेनैवं जन्यन्ते तर्हि ज्ञानादीनि स्वरूपानुगमेन जनयन्ति ' इति ख- पाठः । ६ 'प्रदेशात् तत्राख०' इति ख- पाठः । 'कार्याणं (?) प्रत्येकं' इति ख- पाठः ९ 'मनेकेषां तत्र प्रवेशादिति अनुगमः स्यात्' इति ख- पाठः ।
।
८ ' कार्यान्तरव्यापारः' इति कु-पाठः ।
७