________________
१५६ अनेकान्तजयपताकाख्यं प्रकरणम्
[षष्ठः (मूलम् ) इत्यादि । यदा तु भिन्नखभावेभ्यो निर्भागकखभावकार्यप्रतिनियतेभ्यो विजातीयानेकपदार्थव्यावृत्तमविभक्तैकखभावमेवैकमावि५ भवति कार्य, तदा न कश्चिद् व्याघातः, तद्रूपकार्योत्पादननियतखभावाचानेकस्मादेककार्योत्पत्तावहेतुकत्वप्रसङ्गोऽप्यनवकाश एव । भवत्यहेतुकत्वप्रसङ्गो यद्येकनियतात् खहेतुप्रकृत्यनुविधायिनोऽनेकस्मादनेकतावदेकमनेकं चोपजायेत हेतुधमाननुकारादिति । अत्र
(खो० व्या०) ० तत इदमाह-धूमस्तत्र कथं भवेत् , शक्रमूर्द्धनीति । यदा तु भिन्नखभावेभ्यः-रूपादिभ्यः क्षित्यादिभ्यो वा । किंविशिष्टेभ्य इत्याह-निर्भागैकखभावकार्यप्रतिनियतेभ्यः तत्स्वभावकार्यप्रतिनियतेभ्यस्तत्स्वभावतया तजननं प्रति एवम्भूतेभ्यः । किमित्याह-विजातीयानेकपदार्थव्यावृत्तं तत्वभावतया अवि
भक्तकखभावमेव हेतुभेदानां तत्रैव सामर्थ्यात् एकमाविर्भवति अभूतभवनेन १५ कार्य, तदा न कश्चिद् व्याघातः, हेतुफलभावं प्रति इति प्रक्रमः । एतदेव भावयति तद्रूपेत्यादिना । तद्रूपं च तत्-विवक्षितरूपं विज्ञानादि कार्य च तस्य उत्पादने नियतः खभावो यस्यानेकस्य तदेकापेक्षया तत् तथा तस्माच अनेकमात्-रूपादेः एककार्योत्पत्तौ सत्यां अहेतुकत्वप्रसङ्गोऽप्यनवकाश एव तत्तजननस्वभावतयाऽन्वयाभावेन । भवत्यहेतुकत्वप्रसङ्गो यद्येक२० नियताद विवक्षितकार्यापेक्षया। अनेकस्मात् किम्भूतात् ? स्वहेतुप्रकृत्यनुविधा
(विवरणम्) . (७-८) भवत्यहेतुकत्वप्रसङ्गो योनियतात् स्वहेतुप्रकृत्यनुविधायिनोडनेकस्मादनेकतावदेकमनेकं चोपजायेतेति । इदं सूत्रं तावद् व्याख्यायते
भवत्यहेतुकत्वप्रसङ्गः कार्यस्य, यद्यनियतादेकत्र-विज्ञानादौ कार्ये जनयितव्ये प्रति२५ नियतात् अनेकस्मात्-रूपालोकमनस्कारचक्षुःक्षणलक्षणात् कारणकदम्बकात् । कीह
शादित्याह-खहेतुप्रकृत्यनुविधायिनः-आत्मीयहेतुस्वरूपानुकारिणः अन्वयेन जनका. दित्यर्थः । अनेकतावत्-अनेककार्यस्वभाववदिति वैधयंदृष्टान्तः । एक-विज्ञाना
१ 'स्मादनेककार्यो.' इति क-पाठः । २ अतः परं "इति भवत्यहेतुकरवप्रसङ्गोऽप्यनवकाश एवं इति' इत्यधिको ग-पाठः। ३ 'हेतुकर्माननु०' इति क-पाठः। ४ 'मेदाभूतानां तत्रैव इति क-पाठः। ५ 'तया भावेन' इति ङ-पाठः। ६ 'नियतात् तस्य हेतु०' इति -पाठः । ७ 'नियतरै(१)कत्र' इति ङ-पाठः। ८ 'जनयतेत्यप्रति०' इति क-पाठः। ९ अन्वये जनका.' इति रु-पाठः। १० "विज्ञानाधन्यतर०' इति क-पाठः ।