________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् १५५
(मूलम्) जायत इत्येतावतांशेन हेतुभेदाभेदाभ्यां फलस्य ताविति, तद्व्यतिक्रमे च नियमेन तदहेतुकत्वं प्रसजति । यथोक्तम्
"अग्निस्वभावः शक्रस्य मूर्धा यद्यग्निरेव सः। अथानग्निवभावोऽसौ धूमस्तत्र कथं भवेत् ? ॥"
(स्वो० व्या०) कलापद्वयात्-सामग्रीद्वयात् विलक्षणमेव-विसदृशमेव कार्य जायत इति कृत्वा एतावतांऽशेन हेतुभेदाभेदाभ्यां सामग्र्यपेक्षया फलस्य-कार्यस्य ताविति भेदाभेदावित्यर्थः । तद्व्यतिक्रमे च हेतुभेदाभेदाभ्यां फलस्य ताविति १० न्यायातिकमे च किमित्याह-नियमेन-अवश्यन्तया तदहेतुकत्वं प्रसजति-तस्य फलस्याहेतुकत्वमापद्यते, हेतुधर्मान्वयव्यतिरेकाननुविधानादित्यर्थः । यथोक्तमिति ज्ञापकमाह । अग्निस्वभावः, धूमजननस्वभाव इत्यर्थः । शक्रस्य-इन्द्रस्य मूर्दा-शिर इत्यादि । 'आदि'शब्दार्थमाह-यद्यग्निरेव सः-धूमजननस्वभावः, धूमजननस्वभावस्यार्थस्याग्नित्वात् अथाननिखभावोऽसौ न धूमजननस्वभावः । १५
(विवरणम्) (९) एतावतांशेन हेतुभेदाभेदाभ्यां सामग्यपेक्षयेति । अयमत्राभिप्रायो बुध्यते-बौद्धमते न किञ्चित् कार्येण सार्द्धमभिन्नम् , कारणानामत्यन्तभेदित्वात् , किन्तु यानि कार्याणि एकाका]कारसामग्रीतः समुपजायमानानि विलोक्यन्ते लोके न तान्यभिन्नानीति प्रतिपाद्यते व्यवहारार्थम्, यथा घटसँराबोष्ट्रिकोदबनादीनि; २० यानि तु भिन्नाकारसामग्रीतः समुत्पद्यमानानि लक्ष्यन्ते तानि भिन्नानीति प्रतिपाद्यते, यथा घटपटज्ञानादीनि । एवं च कुतोऽपि सामग्र्याः किञ्चिदेव प्रतिनियतस्वभावं कार्यमुत्पद्यत इति सिद्धं भवति ॥
(१४) 'आदि'शब्दार्थमाहेति । 'अग्निस्वभावः शक्रस्य मूर्द्धा' इत्यादीत्यत्र सूत्रे य 'आदि'शब्दस्तं वृत्तिकारः परिपूर्ण श्लोककथनेन व्याचष्ट इत्यर्थः । परिपूर्णश्लोक-२५ पाठश्चैवम्
"अग्निस्वभावः शक्रस्य मूर्द्धा यद्यग्निरेव सः।
अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवेत् ? ॥"" इति ॥
१ 'प्रसन्जयति' इति ग-पाठः। २ अनुष्टुप् । ३ 'व्यक्तिमेव हेतु.' इति क-पाठः। ४ 'प्रसज्यते' इति उ-पाठः। ५ 'हेतुकर्मान्वयः' इति क-पाठः। ६ ‘सौ धूमजननास्वभावः' इति ङपाठः । ७ 'शरावोष्ट्रिकांददनादीनि' इति च-पाठः। ८ 'यदनग्निः' इति क-पाठः। ९ अनुष्टम् ।