________________
१५४
१०
अनेकान्तजयपताकाख्यं प्रकरणम्
( मूलम् )
कार्याणामुदयदर्शनाचेति ॥
5
स्यादेतत्-नामी कारण विकल्पाः सर्व एव नो बाधायै, केषाञ्चि५ दनिष्टे, आयस्यैवाभ्युपगमात् । यत् पुनरुक्तम्- 'अनेकस्मादेककार्योत्पत्तौ न कारणभेदो भेदकः स्यात्' इति सोऽप्रसङ्गः तथेष्टेः । तथाहि-न भिन्नखभावात् कारणाद् भिन्नखभावमभिन्नखभावाच्चाभिन्नखभावं कार्यमुत्पद्यते । इति कारणभेदाभेदाभ्यां कार्यस्य भेदाभेदावुच्येते, किन्तु विलक्षणात् कारणकलापद्वयाद् 'विलक्षणमेव कार्यं ( स्वो० व्या० )
उपचयमाह-सामग्र्याः - रूपादिलक्षणायाः सकाशात् क्रमेण - तथाविधप्रबन्धापेक्षया कार्याणां - विज्ञानादीनामुदयदर्शनाच्च - उत्पत्तिदर्शनाच्च न चानेकरूपस्य इति अधिकृत विकल्पोपन्यास एव क्रिया ॥
स्यादेतदित्यादि । अथैवं मन्यसे - नामी कारण विकल्पाः - अनन्तरोदिताः १५ सर्व एव नः - अस्माकं बाधायै चाधार्थम् । कथमित्याह - केषाञ्चिद विकल्पानामनिष्ठेः कारणात्, आद्यस्यैव - कारण विकल्पस्य अभ्युपगमात् कारणात् । यत् पुनरुक्तं तत्राद्यविकल्पे - अनेकस्मादेककार्योत्पत्तौ सत्यां न कारणभेदो भेदकः स्यादिति सोऽप्रसङ्गः । कथमित्याह - तथेष्टेः कारणात् । एतदेव भावयति तथाहीत्यादिना । तथाहीति पूर्ववत् । न भिन्नस्वभावात् कारणात् प्रत्येकरूपाद भिन्नखभावम् कार्यमिति गम्यते, अभिन्नस्वभावाच कारणादेव अभिन्नस्वभावं कार्यमुत्पद्यते । इति एवं कारणभेदाभेदाभ्यां कार्यस्य भेदाभेदावुच्येते नेति, किन्तु विलक्षणात् विसदृशात् कारण( विवरणम् )
3
[ षष्ठः
(७ - ९) न भिन्नस्वभावात् कारणाद् भिन्नस्वभावम्, अभिन्नस्वभावाच्चा२५ भिन्नस्वभावं कार्यमुत्पद्यते इति कारणभेदाभेदाभ्यां कार्यस्य भेदाभेदावुच्येते इति । अथमस्य सूत्रवाक्यस्याशयः -- रूपं चक्षुरालोको मनस्कारश्चेत्यमी प्रत्येकं भिन्नस्वभावाः सन्तोऽभिन्नस्वभावमेव ज्ञानाख्यं कार्यं जनयन्तीत्येवं कारणभेदाद् भेदो नाभ्युपगम्यते; तथा मृल्लक्षणमभिन्नमेकं कारणमिति तत्कायैः सर्वैरेकाकारैः भाव्यम्, न तु घटशरावादितया भिन्नैरित्येवं कारणाभेदादभेदो नाङ्गीक्रियते कार्याणामिति । ३० वृत्त्यक्षराणि तु एतद्व्याख्यानुसारेण सुगमानीति किं व्याख्याप्रयासेन ? ॥
२ 'भेदाभ्यां कार्यस्य' इति क - पाठः ।
१ 'विलक्षण कार्य' इति ग-पाठः । वुच्येते इति अथ नाभ्युप०' इति क- पाठः ।
३ भेदभेदा