________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् १५३
(मूलम् ) अथ मा भूदयं दोष इति विशेषाः कार्यतो व्यतिरिक्ता एव इष्यन्ते । एवमपि कारणव्यापारस्य तेष्वेवोपयुक्तत्वात् तत् कार्यमहेतुकमनुषज्यत इति यत्किञ्चिदेतत् ॥
एतेनानेकमनेकखभावस्येत्येतदपि प्रत्युक्तम् , एकस्यानेकखभावत्वविरोधात् । न चैकमेकखभावस्य कारणं कार्यस्य जनकम् , विश्वस्थान्धवधिरादिभावप्रसङ्गात्, चक्षुरादीनां सजातीयक्षणोत्पादकत्वे विज्ञानाजननात्, विज्ञानजनकत्वे वा सजातीयक्षणाप्रतिसन्धानादिति। न चानेकरूपस्य, तदेकखभावतया केषाश्चिदहेतुकत्वापत्तेः, १० तथाविधैकखभावताऽभ्युपगमे अतिप्रसङ्गात्, सामग्याः क्रमेण
(खो० व्या०) अथ मा भूदेष दोषः-अनन्तरोदित इति विशेषाः-विषयनि सितादयः कार्यतः, इह प्रक्रमे विज्ञानात् , व्यतिरिक्ता एवेष्यन्ते । एवमपि इष्यमाणे कारणव्यापारस्य विषयादिसम्बन्धिनः तेष्वेव-विशेषेषूपयुक्तत्वात् कारणात् १५ तत् कार्य-विज्ञानाख्यमहेतुकमनुषज्यत इति कृत्वा यत्किञ्चित्-असारमेतत्-अनन्तरोदितमिति ॥ __ एतेनेत्यादि । एतेन-अनन्तरोदितेन अनेकं कारणमनेकखभावस्य कार्यस्य जनकमित्येतदपि प्रत्युक्तम् । कुत इत्याह-एकस्य कार्यस्य अनेकखभावत्वविरोधादिति । न चैक-रूपादि एकखभावस्य-रूपादेरेव कारणं कार्यस्य २० जनकम् । कुत इत्याह-विश्वस्य-जगतः अन्धबधिरादिभावप्रसङ्गात् । प्रसङ्गः चक्षुरादीनां कारणानां सजातीयक्षणोत्पादकत्वे सति एकस्यैकखभावकार्यकारणतया विज्ञानाजननात्, विज्ञानजनकत्वे वा चक्षुरादीनां सजातीयक्षणाप्रतिसन्धानात् चक्षुराधजननात् एकस्सैकस्वभावकार्यकारणतया इति अन्धबधिरादिभावप्रसङ्गः। न चानेकरूपस्य, एकं कारणं कार्यस्य जनक-२५ मिति प्रक्रमः, तदेकस्वभावतया तस्स-कारणस्य एकस्वभावतया कारणेन केषाचित्-कार्याणामनेककार्यमध्ये । किमित्याह-अहेतुकत्वापत्तेः, एकखभावस्य एकनैवोपयोगादिति गर्भः। तथाविधैकखभावताऽभ्युपगमे-अनेककार्यजननकस्वभावताऽभ्युपगमेऽधिकृतकोरणस्य किमित्याह--अतिप्रसङ्गात् , कार्यान्तराणामपि तत एवोत्पत्तेरित्यर्थः । तथाविधैकस्वभावतया एवमपि प्रवृत्त्यविरोधात् ।३०
१ 'नानेकस्वभावः' इति ग-पाठः। २ द्रष्टव्यं १३७तमं पृष्ठम् । ३ 'न वैकमेक०' इति ग-पाठः। ४ 'भावतयाऽभ्युपगमे' इति ग-पाठः। ५ 'कारणमित्याह' इति ङ-पाठः।
अनेकान्त. २.