________________
[षष्ठः
१५२
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् ) . व्याहतेः विषयनि सितादयश्च विज्ञानाव्यतिरेकिणो यथा विषयादिभिः क्रियन्ते, तद्वत् तदव्यतिरिक्तबोधरूपकारिभिर्मनस्कारादि५भिरपि । इति सर्वसर्वजन्यत्वे तद्व्यवस्थाऽनुपपत्तिः। तदनुपपत्तिश्च न विषयात् तदाकारत्वसम्भवो बोधरूपाभेदात् । न चासम्भवः, तदाकारत्वात् । तथा न मनस्कारो बोधरूपजनकः, विषयाकाराव्यतिरेकात्। न चाजनकः, बोधरूपानन्यत्वादिति। इस्थमिन्द्रियादि. ध्वपि द्रष्टव्यमिति मिथो विरोधसम्भवेतरापत्तिदोषतस्तदनुपपत्तिः॥
(खो० व्या०) परस्परव्याहतेः कारणात् विषयनिर्भासितादयश्च-धर्मा विज्ञानाव्यतिरेकिणः सन्तस्तदेकतया परमार्थेन यथा विषयादिभिः-कारणभेदैः "क्रियन्ते, तद्वत्-इत्थमेव तदव्यतिरिक्तबोधरूपकारिभिः-विज्ञानाव्यतिरिक्तबोधरूपकरणशीलैः मनस्कारादिभिरपि । इति-एवं सर्वसर्वजन्यत्वे ७५ सर्वेषां-विषयनि सितादीनां सर्वजन्यत्वे-अशेषमनस्कारादिजन्यत्वे सति निरंशैकविज्ञानाव्यतिरेकेण तव्यवस्थाऽनुपपत्ति:-विषयनि सितादिव्यवस्थाऽनुपपत्तिः। तदनुपपत्तिश्च-विषयनि सिताद्यनुपपत्तिश्च मूलत एव । एनामेवाह-(न) विषयात्-नीलादेः तदाकारत्वसम्भव:-नीलाद्याकारत्वसम्भवः, विज्ञानस्येति प्रक्रमः । कुत इत्याह-बोधरूपाभेदा(दा)कारत्वस्य । न चासम्भवः । २० कुत इत्याह-तदाकारत्वात्-नीलादिविषयाकारत्वात् । तथा न मनस्कारो बोधरूपजनकः । कुत इत्याह-विषयाकाराव्यतिरेकात् बोधरूपस्य । न चाजनकः। कुत इत्याह-बोधरूपानन्यत्वाद् विषयाकारस्य इति । इत्थम्एवमिन्द्रियादिष्वपि-कारणभेदेषु द्रष्टव्यं विषयग्रहणप्रतिनियमावधिकृत्य । इति-एवं मिथ:-परस्परं विरोधसम्भवश्चेतरापत्तिश्चात एव दोषः । ततः २५ किमित्याह-तदनुपपत्तिः-विषयानि सिताद्यनुपपत्तिः ॥
(विवरणम्) (२४) विरोधसम्भवश्चेतरापत्तिश्चेति । न विषयात् तदाकारत्वसम्भवो बोधरूपाभेदादिति विरोधः तस्य सम्भवस्तदाकारत्वादिति । चत्वारि(१) बोधत इतरः(?) तस्यापत्तिः॥
१'व्यतिरिक्ताबोधः' इति क-पाठः । २ 'रूपोपकारि०' इति ग-पाठः। ३ 'तथा मनस्कारों' इति ग-पाठः । ४ "क्रियन्हे तदित्व(स्था)मेव तद.' इति उ-पाठ। ५ 'सम्भवाबोध.' इति च-पाठः।