________________
अधिकारः ]
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
व्यतिरिक्तश्च न कश्चिद् भावः । इति सर्वे भावा अपरतत्रोत्पत्तयः स्युरिति ॥
स्यान्मतम् - भिन्नखभावेभ्यो भिन्नस्वभावमेव सञ्जायते, कारण- ५ व्यापारविरचितानामसङ्कीर्णत्वात् कार्यस्वभावविशेषाणाम्, यथा विषयेन्द्रियमनस्कारबलभाविनो ज्ञानस्य विषयात् तदाभता नेन्द्रियान्न मनस्कारात् इन्द्रियाद् विषयग्रहणप्रतिनियमो नान्यतस्तस्यैव मैनस्काराद् बोधरूपता, न परतः । न च कारणव्यापारविषये नानाFast कार्ये स्वभावभेदः, निर्विभक्तरूपस्यैवोपलम्भात् । एतदप्य- १० युक्तम्, सन्यायविरोधात् । कथं हि नामैकस्वभावं कार्य विशेषाश्च तदव्यतिरिक्ता एव चित्रा इति चिन्त्यम् । नानात्वैकत्वयोः परस्पर
१५१
( खो० व्या० ) उक्तवदुभयत्र नियमाभावात् । तद्व्यतिरिक्तश्च भेदाभेदव्यतिरिक्तश्च न कश्चिद् भावो नाम । इति एवं सर्वे भावा अपरतन्नोत्पत्तयः - कारणनिरपेक्षजन्मानः १५ स्युरित्यनिष्टं चैतत् ॥
स्वान्मतम् - भिन्नखभावेभ्यो भिन्नस्वभावमेव जायते, कारणेभ्यः कार्यमिति प्रक्रमः । कुत इत्याह- कारणव्यापारविरचितानामसङ्कीर्णत्वात् हेतोः । केषामित्याह - कार्यस्वभावविशेषाणामिति । एतदेव भावयति त (?) थेत्यादिना । यथा विषयेन्द्रियमनस्कारबल भाविनो ज्ञानस्य बलं सामर्थ्य २० विषयात् तदाभता - तदाकारता, नेन्द्रियान्न मनस्कारात् तदाभता, इन्द्रि - याद् विषयग्रहणप्रतिनियमो रूपाद्यपेक्षया, नान्यतः - विषयादेः तस्यैवविज्ञानस्य मनस्कारात् समनन्तराद् बोधरूपता, न परतः - इन्द्रियादेः । न च कारणव्यापारविषये नानात्वेऽपि सति कार्ये स्वभावभेदः । कुत इत्याह-निर्विभक्तरूपस्यैवोपलम्भात् कार्यस्येति । एतदाशङ्कयाह-एतदध्य- २५ युक्तम् । कुत इत्याह- सश्यायविरोधात् । एनमेवाह कथं हीत्यादिना । कथं हि नामैकस्वभावं कार्य विशेषाश्च तद्व्यतिरिक्ता एव एकस्वभावकार्याव्यतिरिक्ता एव चित्रा इति चिन्त्यम् । कथमित्याह - नानात्वैकत्वयोः
१ 'भावेभ्योऽभिन्न ०' इति ग-पाठः । २ ' भाविनो विज्ञानस्य' इति क- पाठः । ३ 'मनस्कारोद्बोध०' इति म -पाठः । ४ ' विषयनानात्वे' इति ग-पाठः । ५ ' कार्यस्वभाव०' इति ग-पाठः । ६ 'लम्भात्, तद०' इति ग- पाठः | ७ 'चित्रा इव इति' इति ग-पाठः । ८ ' भाविज्ञानस्य' इति सु-पाठः । ९ 'नेन्द्रियामन०' इति ङ-पाठः । १० 'नानात्वैकयोः' इति ङ-पाठः ।