________________
१५०
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम्) कथञ्चिदन्यथाभवनस्य तदैवान्यथैवेत्येकान्तापोहेन प्रवृत्तेः, वस्तुन एव तत्वभावत्वात्, प्रतीत्यनुग्रहसिद्धरुभयनिमित्तभावात् , अस्य ५च तदेवान्यथा भवतीत्यनेनैवाक्षेपोऽन्यथैतच्छब्दार्थायोगात् । इति पक्षान्तरोपपत्त्या पारिशेष्यानाश्रयणेऽपि न हेतुफलभावोच्छेददोष इत्यलं प्रसङ्गेन ॥
न च कारणमप्यनेकमेकखभावस्य कार्यस्य जनकम् । यदि स्यान्नेदानी भिन्नखभावेभ्यः सहकारिभ्यः कार्योत्पत्तौ कारणभेदो भेदकः १० स्यात्, तंतश्चाभेदोऽपि नाभेदको भवेत्, कारणभेदेऽप्यभेदात् ।
यदि भेदाद् भेद एव स्यात्, एवमभेदादभेदो युक्तः, अव्यभिचारनियमात् । इह तु नैवमित्यहेतुको विश्वस्य भेदाभेदी स्याताम् । तद्
(खो० व्या०) अन्यभवनाक्षिप्तं न शब्दार्थानुगतमपि, किन्तु शब्दार्थानुगतमेव, कथपश्चिदन्यथाभवनस्य तदैवान्यथैवेति-एवं एकान्तापोहेन प्रवृत्तेः । कथमित्याह-वस्तुन एव तत्वभावत्वात्-निवृत्त्यनिवृत्त्यात्मकत्वेन अनेकान्तस्वभावत्वात् । तत्स्वभावत्वं च प्रतीत्यनुग्रहसिद्धरुभयनिमित्तभावात् । तदन्यच्चेत्युभयम् । अस्य च-उभयस्य तदेवान्यथा भवतीति । अनेनैवा
क्षेपः अन्यथा-तदनाक्षेपे एतच्छब्दार्थायोगात् । इति-एवं पक्षान्तरोप२० पत्त्या कारणेन पारिशेष्यानाश्रयणेऽपि परोक्ते न हेतुफलभावोच्छेददोषः पक्षान्तरेणाप्युक्तनीत्या तदनुच्छेदसिद्धिरित्यलं प्रसङ्गेन ॥
विकल्पान्तरमधिकृत्याह-न च कारणमप्यनेक-रूपादि एकस्वभावस्य कार्यस्य जनकं-ज्ञानादेः । यदि स्यादनेकमेकस्वभावस्य सत् नेदानीं भिन्न
खभावेभ्यः सहकारिभ्यः रूपादिभ्यः कार्योत्पत्ती-विज्ञानादिभावेऽपि । २५ किमित्याह-कारणभेदो भेदकः स्यात्, अनेकेभ्य एकोत्पत्तिरिति भावः । ततश्च-एवं च सति अभेदोऽपि कारणगतो नाभेदको भवेत् कार्ये । कथमित्साह-कारणभेदेऽपि उक्तवदभेदात् कार्यस्य । एतदेव भावयति-यदि भेदात्कारणगतात् भेद एव स्यात् कार्यस्य, एवमभेदात्-कारणगतात् अभेदो युक्तः कार्ये । कुत इत्याह-अव्यभिचारनियमाद्धेतोः । इह तु-प्रक्रमे नैव३० मनेकस्मादेकमावाङ्गीकरणेन इत्यहेतुको विश्वस्य-जगतः भेदाभेदौ स्यातां
१'नेकखभावस्य' इति ग-पाठः। २ 'ततश्च भेदोऽपि' इति क-पाठः। ३ 'न भेदको' इति ग-पाठः। ४ 'भावतस्य तन्चेदानी' इति छ-पाठः ।