________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् १४९
(मूलम्) निवृत्त्यनिवृत्तिपक्षस्य च विरुद्धत्वादिति, न निवृत्त्यनिवृत्तिपक्षे विरोधासिद्धः, तस्यैव तथाभवनात् ॥ .....
स्यादेतत्-तथाभवनमित्यन्यथाभवनमेतच्च शब्दार्थाननुगतं तदे. ५ वान्यथा भवतीति, (तद्) यदि तदेव कथमन्यथा भवति, अन्यथा चेद् भवति कथं तदेवेति । उच्यते-कथञ्चिदन्यथाभवनाददोषः, तदतादवस्थ्योपलब्धेः, मृदाद्यात्मककपालादिवेदनात् उभयनिश्चय'सिद्धेः अन्यतरस्यापि भ्रान्तत्वायोगात्, इतरत्राप्यनाश्वासापत्तेः तजातीयव्यभिचारदर्शनात् सतः सर्वथाऽसत्त्वानापत्तेः, कादाचि."
कतया तदुत्पत्त्यादिप्रसङ्गात्, असतोऽपि सत्ताऽयोगात् स्वभाव'वैकल्येन तद्भावनियमासिद्धेरिति । न चैतन्न शब्दार्थानुगतमपि,
(खो० ब्या०) स्थ्यात्-हेतुतादवस्थ्येन निवृत्त्यनिवृत्तिपक्षस्य च, प्रक्रमाद्धेतुगतस्य, विरुद्धत्वादिति । एतदाशयाह-नेत्यादि । न-नैतदेवं निवृत्त्यनिवृत्तिपक्षेऽधिकृते । १५ किमित्याह-विरोधासिद्धेः। असिद्धिश्च तस्यैव-हेतोस्तथा-कार्यतया भवनात्॥ __ स्यादेतत्-तथाभवनमिति-एवमन्यथाभवनम् एतच्च-अन्यथाभवनं शब्दार्थाननुगतम् । कथमित्याह-तदेवान्यथा भवति । अयमर्थोऽत्र-तद् यदि तत् कथमन्यथा भवति, अन्यथा चेद् भवति कथं तदेवेति विरोधात् । एतदाशङ्याह-उच्यते-कथञ्चिदन्यथाभवनाददोषः । कथमित्याह-२० तदतादवस्थ्योपलब्धेः तस्य-हेतोः अतादवस्थ्योपलब्धेः । उपलब्धिश्च मृदाद्यात्मककपालादिवेदनात् । एतच्चानुभवसिद्धं उभयनिश्चयसिद्धेः मृदादि कपालादि चोभयमन्यतरस्यापि-मृदादेः भ्रान्तताऽयोगात् । अयोगश्चेतरत्रापि कपालादौ अनाश्वासापत्तेः।आपत्तिश्च तजातीयव्यभिचारदर्शनात् तथा सतासर्वथा-एकान्तेन असत्वानापत्तेः। अनापत्तिश्च कादाचित्कतया २५ कारणेन तदुत्पत्त्यादिप्रसङ्गात्-असत उत्पादनाशप्रसङ्गात् , तथा असतोऽपि सर्वथेति वर्तते सत्ताऽयोगात् । अयोगश्च खभाववैकल्येन असतः तद्भावनियमासिद्धेः सद्भावविशेषनियमासिद्धेरिति । न चैतत्-कथञ्चिदन्यथाभवनं
१ समीक्ष्यतां १४०तम पृष्ठम् । २ "सिद्धिः अन्यतर.' इति ग-पाठः। ३ सर्वथानापत्तेः इति ग-पाठः। ४ 'वैकल्पेन' इति ग-पाठः। ५ 'नियमासिद्धिरिति' इति क-पाठः ।