________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम्)
अविचारितरमणीयत्वात् । तथाहि - नोत्पत्तिर्भावव्यतिरिक्ता । न चासौ गर्भवत् कारणान्निष्क्रामति, न चाम्बरतलात् पतति, न ५चास्ति सर्वथा प्राक्, न चासत् सद् भवति, भवति च कस्यचिदनन्तरं - मरणसमय एवास्य रहितस्तदन्वयेन तत्सामर्थ्यप्रभवो नियमवाँति को न्वखायमान इत्थं भाषते, अबोधग्रहगृहीताचापरः अनुवक्तीत्यपकर्ण्यमेतत् । आह एवमपि पारिशेष्यानाश्रयणे हेतुफलभावोच्छेददोषोऽनिवारितप्रसरः, "हेत्वनिवृत्तिपक्षे तत्तादवस्थ्यात्,
१०
१४८
( स्वो० व्या० )
असारमेतत्-अनन्तरोक्तम्, अविचारितरमणीयत्वात् हेतोः । एतदेवाह (तथाहीत्यादिना) नोत्पत्तिर्भावव्यतिरिक्ता । न चासौ - भावो गर्भवत् कारणानिष्क्रामति, मातुरुदरादिति गम्यते, न चाम्बरतलात् - आकाशतलात् पतति सहसा, न चास्ति सर्वथा - सर्वैः प्रकारैः प्रागू, उत्पत्तेरिति प्रक्रमः, न चासत् १५ सद् भवति, अभावस्य भावत्वविरोधात् भवति च कस्यचित्-वस्तुनोऽनन्तरं मरणसमय एवास्य - कस्यचित् रहितस्तदन्वयेन तत्तद्भावापत्त्यभावतः तत्सामर्थ्यप्रभवः - अनन्तरातीत वस्तुशक्तिजन्मा नियमवाँश्च भावः स एव नापरः । इति को न्वस्वमायमानः सन् इत्थं भाषते ? | अबोधग्रहगृहीताचापरः - अन्यः अनुवक्ति को न्वपरः १, न कश्चिदित्यर्थः । इत्यपकर्ण्यमेतत् । २० आह - एवमपि सति पारिशेष्यानाश्रयणे हेतुफलभावोच्छेददोषः । किमित्याह-अनिवारितप्रसरः । कथमित्याह - हेत्वनिवृत्तिपक्षे तत्तादव
[ षष्ठः
२५
(विवरणम् )
(६) मरणसमय एवास्येति । विनाशसमये एव मृदादेर्घटादिरुत्पद्यत इत्यर्थः । एतच्च ‘कस्यचिदनन्तरम्' (५ - ६ ) इत्यस्यैव सौत्रपदस्य व्याख्यानं कृतं सुखावबोधाय सूत्रकृता ॥
1
(२०) पारिशेष्यानाश्रयणे इति । हेतोरनिवृत्तिपक्षे साङ्ख्याभिमते तादवस्थ्याद्धेतोर्न घटते कार्यम् । निवृत्त्यनिवृत्तिपक्षस्तु जैनाभिमतो विरुद्ध इति पारिशिष्याद् बौद्धाभिमत एव वस्तुनोऽनन्तरं वस्तुत्पद्यत इति । अस्मिन् पक्षे कार्यकारणभावव्यवस्थितिरिति पारिशेष्यं तस्यानाश्रयणे सति ॥
१ 'न वाऽम्बर ०' इति ग-पाठः । २ ' प्रभवनियम ०' इति क- पाठः | ३ 'नाश्रयेण हेतुफल. ' इति क - पाठः । ४ 'हेतुनिवृत्तिपक्षे' इति ग-पाठः । ५'नैवात्' इति क- पाठः । ६ 'कोऽपरः इति ङ-पाठः । ७ ' इत्यस्मन् (? तू ) पक्षे' इति ख- पाठः ।