________________
अधिकारः] खोपशव्याख्या निचन्द्रीयविवरणयुतम् १४७
(मूलम्) पायन विशिष्टं सामर्थ्य न हेतुफलभावनियमः सर्वथाऽसदुत्पद्यत इति प्राप्स्या न कचिद् व्यवस्थासिद्धिरिति ॥
स्यादेतन वै काचिदुत्पत्तिर्भावव्यतिरिक्ताऽस्ति यामाविशदसदु. ५ स्पद्यत इत्युच्यते, किन्तु कुतश्चिद् वस्तुनोऽनन्तरं कस्यचिद् वस्तुनो नियमवतः सत्ता सैव तदात्मिकोत्पत्तिरभिधीयते । न त्वियं केनचित् सम्बद्धा । सा च प्राग नासीदित्यसदुत्पद्यत इति व्यवाहियते, न पुनरसतोऽवस्थान्तरावेशस्तदिति । अत्रोच्यते-यत्किञ्चिदेतत्, (खो० व्या०)
१० सङ्गता-न कारणस्यैव कार्यभावसङ्गतां तद्योग्यता-कार्ययोग्यतां विहाय अपर:-अन्यस्तत्परिज्ञानोपाय:-अधिकृतसामर्थ्यपरिज्ञानोपायः । न विशिष्टं सामर्थ्य तत्तथाभावसङ्गतां तद्योग्यतां विहायावध्यभावेन न हेतुफलभावनियमः [तत्तथाभावसङ्गतां तद्योग्यतां विहाय सर्वथाऽसदुत्पद्यते । इति-एवं प्रास्या न कचिद् व्यवस्थासिद्धिर्विशिष्टसामर्थ्यादाविति ॥
स्यादेतत्-न वै काचिदुत्पत्तिर्भावव्यतिरिक्ताऽस्ति-विद्यते याम्उत्पत्तिमाविशत् सत् असदुत्पद्यत इत्युच्यते, किन्तु कुतश्चिद् वस्तुनो विशिष्टादनन्तरं कस्यचिद् वस्तुनो नियमवतः-अव्यभिचारिणःसत्ता भवति, सैव-सत्ता तदात्मिका-सत्तात्मिका उत्पत्तिरभिधीयते । न त्वियम्उत्पत्तिः केनचिद् वस्तुसम्बद्धा । सा च-उत्पत्तिः प्राम्-अधिकृतक्षणान्ना- २० सीदिति कृत्वा असदुत्पद्यत इति-एवं व्यवहियते; न पुनरसतः अवस्थान्तरावेशस्तत् सदिति । एतदाशङ्याह-अत्रोच्यते । यत्किञ्चित्
(विवरणम्) जातिरूपत्वादिति । आदिपरिकल्पनायां दोषाः-नित्यं सत्त्वमसत्त्वं चेत्यादयस्त एव प्रमाणं तस्य पुनर्जातिरूपत्वात् । अयमभिप्रायः-अनादिहेतुपरम्पराग्राहकप्रमाणस्या-२५ भावे आदिपरिकल्पनादोषप्रमाणं प्रमाणाभासमेव बोध(?ध्य)स्य(?म्) ।
१'हेतूत्पत्तिफलभावनियमः' इति क-पाठः। २ 'सर्वथा सदु.' इति क-पाठः। ३ 'तदालकोत्पत्ति' इति क-पाठः । ४ 'इत्युच्येत' इति उ-पाठः। ५ 'दयस्त एतत् प्रमाणं तत् प्रमाणं तस्य' इति च-पाठः।