________________
१४६
अनेकान्तजयपताकाख्यं प्रकरणम्
[पट (मूलम्) न बीजादावुदितसामर्थ्य तदतिरेकेण, अपि तु तत्सत्तामात्रमिति तदेवावर्तते । न चाङ्कुरादौ सामर्थ्य मिति तदा परिज्ञानोपायः, ५सर्वासद्विविक्ततत्सत्तामात्रवेदनात् । न च तत्तत्वभावतया तदुपलम्भ एव, सर्वथाऽवध्यभावे तत्तत्स्वभावतासिद्धेः। न च खहेतुसामर्थ्यतस्तत्सिद्धिः, तत्राप्युक्तदोषानतिवृत्तेः । न च तत्रापि खहेतुसामर्थ्यमेव परिहारः, तुल्यदोषतयोपघातात् । न चानादिहेतुपरम्परा उपघातत्राणम्, अत एव हेतोः, प्रमाणानुपपत्तेश्च, १० तस्मान्न तत्तथाभावसङ्गतां तद्योग्यतां विहाय अपरस्तत्परिज्ञानो
(खो० व्या) एतदेव योजयति तथाहीत्यादिना । तथाहि न बीजादौ-कारणे उदितसामर्थ्य अङ्कुरादिनिबन्धनं तदतिरेकेण-बीजाद्यतिरेकेण, अपि तु तत्सत्तामात्रंबीजादिसत्तामात्रम् । इति-एवं तदेवावर्त्तते, प्रागुक्तमिति । न चाकरादौ-कार्ये १५सामर्थ्य मिति-एवं तदा-बीजकाले परिज्ञानोपायः। कुत इत्याह-सा
सद्विविक्ततत्सत्तामात्रवेदनात्-त्रैलोक्यगतासद्विविक्तबीजमात्रवेदनात् । न च तत्तत्वभावतया-वीजादेरकुरादिजननस्वभावतया तदुपलम्भ एवअकुराधुपलम्भ एव, उपाय इति वर्तते । कुत इत्याह-सर्वथाऽवध्यभावे तत्
तत्वभावतासिद्धेः-बीजादेरङ्करादिजननस्वभावतासिद्धेः। न च खहेतुसा२० मयतस्तत्सिद्धिः-तत्तत्स्वभावतासिद्धिः । कुत इत्याह-तत्रापि-खहेतुसामर्थ्य
उक्तदोषानतिवृत्तेः कारणात् । न च तत्रापि-अधिकृतहेतुसामर्थ्य खहेतुसामर्थ्यमेव परिहारः अपरहेत्वपेक्षया । कुत इत्याह-तुल्यदोषतया कारणेन उपघातात् हेतोः। न चानादिहेतुपरम्परा प्रागुपन्यस्ता उपघातत्राणम् । कुत इत्याह-अत एव हेतोः, तुल्यदोषतयोपघातादित्यर्थः । उपचयमाह-प्रमाणा२५ नुपपत्तेश्व-अनादिहेतुपरम्पराग्राहकप्रमाणाभावात् , आदिपरिकल्पनादोषप्रमाणस्य च जातिरूपत्वादिति । तस्मादित्यादि । यस्मादेवं तस्मात् न तत्तथाभाव
(विवरणम्) (१८-१९) तत्तत्स्वभावतासिद्धेरिति । तस्य-बीजादेस्तत्स्वभावता-अडरादिजननस्वभावता तस्याः सिद्धिः ( ? द्धेः)॥ ३. यद्यप्यनादिहेतुपरम्पराग्राहकं प्रमाणं नास्ति तथाप्यादिपरिकल्पनायां दोषास्ते प्रमाणं भविष्यन्तीत्याशङ्कयाह-(२५-२६) आदिपरिकल्पनादोषप्रमाणस्य च १ 'कार्यसामर्थ्य' इति क-पाठः। २-३ 'भावताऽसिद्धेः' इति क-पाठः ।