________________
अधिकारः] स्वोपजन्याख्यामुनिचन्द्रीयविवरणयुतम् १४५
__ (मूलम्) हि वीजादिसत्ताकालेऽङ्करादीनां तथाभाविनाऽपि रूपेण सर्वथाऽसत्त्वादङ्कुरादिप्रतिनियतशक्तीदं कारणमित्येवं सावधिका सामर्थ्यनियमो नास्तीत्ययमर्थोऽस्माभिर्विवक्षितः, स चापरिहृत एव, सर्वथा५ प्रतियोग्यभावादिति ॥
स्यादेतत्-अङ्कुरादौ यत् सामर्थ्य मुदितं बीजादेस्तत्तदा विशेषतो व्यपदेष्टुमशक्यम् , अवध्यनिष्पत्तेः, तत्र तु तत् सिद्धमेव, यतोऽनन्तरमङ्कुराद्युत्पत्तिः, सति च तादृशि वस्तुनि तथाव्यपदेशनिवृत्तावपि न किश्चिद् व्याहन्यते; न हि नामायत्ता वस्तूत्पत्तिः, तस्या.. प्रयोजकत्वादिति। एतदप्ययुक्तम् ,तत्त्वतो विहितोत्तरत्वात्। तथाहि
(खो० व्या०) प्राक् । एतद्भावनायैवाह-सति हीत्यादि । सति यस्माद् बीजादिसत्ताकाले अङ्कुरादीनां-कार्याणां तथा-तत्प्रतिनियततया भाविनाऽपि रूपेण सर्वथाऽसत्त्वात् अङ्कुरादिप्रतिनियतशक्तीदं कारणं-बीजादि इत्येवं साव-१५ धिकः सामर्थ्य नियमो नास्तीत्ययमर्थोऽस्माभिर्विवक्षितः प्राक् । स च भवता अपरिहृत एव, सर्वथा प्रतियोग्यभावात्, तदभावे स्वभावप्रतिनियमाभावादित्यर्थः ॥
स्यादेतत्-अङ्कुरादौ कार्ये यत् सामर्थ्यमुदितं बीजादेः-कारणस्य तत् तदा-कारणकाले विशेषतो व्यपदेष्टुमशक्यम्। कुत इत्याह-अवध्य-२० निष्पत्तेः, तत्र तु-बीजादौ तत् सिद्धमेव सामर्थ्यम् । कथमित्याह-यतोऽनन्तरमडराद्युत्पत्तिः सति च ताहशि वस्तुनि वस्तुस्थित्या तथाव्यपदेशनिवृत्तावप्यवध्यभावेन न किञ्चिद् व्याहन्यते, तात्त्विकहेतुभावसिद्धेः । न हि नामायत्ता वस्तूत्पत्तिः, तस्याप्रयोजकत्वात् नाम्न इति । एतदाशङ्कयाह-एतदप्ययुक्तं परोक्तम् । कुत इत्याह-तत्त्वतो विहितोत्तरत्वात् । २५
(विवरणम्) (१७-१८) तदभावे स्वभावप्रतिनियमाभावादिति । तस्य-प्रतियोगिनः कार्यस्य शक्तिरूपतयाऽपि कारणेऽभावे सति स्वभावे प्रतिनियमस्य-प्रतिनियतस्यैव कार्यस्य कारणं-जनकमित्येवंलक्षणस्याभावात् ।।
'भावात् एतदभावे' इति उ-पाठः। २'तादृशवस्तुनि' इति ऊ-पाठः ।
अनेकान्त. १९