________________
१४४
अनेकान्तजयपताकाख्यं प्रकरणम्
[षष्ठः
(मूलम्) को विशेष इति चेत्, वयमप्येतदेव ब्रूम इत्यनुपालम्भ एषोऽ. स्मद्विधानाम् । तत्तथास्वभावत्वविभवप्रतिनियमाददोष इति चेत्, भवत्यदोषो यस्य कस्यचिदसतः तत्सम्पादनेन, नियमतत्सम्पादनं तु तद्विशेषाधायीति तद्विशेषत्वादेव न सर्वथा तदसत्त्वमिति परिचिन्त्यतामेतत् । एवं च निरवधिकसामर्थ्यदोषस्तदवस्थ एव । सति
(खो० व्या) भावेनेति भावनीयम् । असतः को विशेष इति चेत् निरुपाख्यतया, न १. कश्चिदित्यर्थः । एतदाशङ्याह-वयमप्येतदेव ब्रूम इति-एवमु(?मनु)पालम्भ
एषोऽस्मद्विधानां-सर्वासदविशिष्टजननैकस्वभावतः असद्विशेषभवनवादिपर्यनुयोगपराणाम् । तत्तथास्वभावत्वविभवप्रतिनियमात् तस्य-अधिकृतसत्तामात्रस्य तथास्वभावत्वविभवप्रतिनियमात्-कार्यविशेषकरणस्वभावत्वविभवप्रतिनियमाददोषः इति चेत् अनन्तरोदितः । एतदाशङ्याह-भवत्यदोषो यस्य कस्यचिदसतो ३५ यदृच्छया तत्सम्पादनेन, नियमतत्सम्पादनं तु-नियमेनासत्त्वविशेषसम्पादनं पुनस्तद्विशेषाधायि-अधिकृतसत्तामात्रस्य तथास्वभावत्वविशेषाधायि । इति-एवं तद्विशेषत्वादेव-अधिकृतसत्तामात्रस्य तथास्वभावत्व विशेषादेव न सर्वथा तदसत्त्वं-भाविकार्यासत्त्वमवधिभावेनाधिकृतभावविशेषत्वादिति परिचिन्त्यतामिति । एवं च कृत्वा निरवधिकसामर्थ्यदोषस्तदवस्थ एव य उक्तः
(विवरणम्) (११-१२) सर्वासदविशिष्टजननैकस्वभावतः असद्विशेषभवनवादिपर्यनुयोगपराणामिति । असद्विशेषस्य भवनम्-उत्पादं वदतीत्येवंशीलोऽसद्विशेषभवनवादी तत्पर्यनुयोगः परः-प्रकृष्टो येषां ते तथाविधाः । तेषां कुतो यदसद्विशेषभवनमित्याह-अविशिष्टः सन् जननोऽविशिष्टजननः सर्वासतामविशिष्टजनन एकः २५ स्वभावो यस्य वस्तुनस्तत् तथा तस्मात् ॥
(१३) कार्यविशेषक(?का)रणस्वभावत्वविभवप्रतिनियमादिति । कार्यविशेषस्य कारणं-प्रतिनियतकार्यहेतुः स्वभावो यस्य तत् तथा, तस्य भावः कार्यविशेषकारणस्वभावत्वम् , तदेव विभवः-विभूतिस्तस्मात् प्रतिनियमः-नैयत्यं तस्मात् ।।
१ 'तो सिद्विशेष०' इति 3-पाठः । १ 'विशिष्टजननः सर्वाशतामविशिष्ट ' इति ख-पाठः ।