________________
१४३
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) यदि हि कार्यखभावसम्बद्धं कारणं भवेत् तदा कार्यमपि कारणवनिष्पन्नमेव । इति किं कुर्वत् कारणं स्यात् ? । किञ्च क्रियमाणं कार्यमिति व्यतिरिक्तावधिविकलमेवोक्तवद् विशिष्टं तत्सामर्थ्य- ५ मिति यथोक्तदोषाभावः । एतदप्यसमीचीनम्, प्रलापमानत्वात् । तथाहि-'यदेव हि यदुत्पादने शक्तं तत एव तदुत्पादः, नान्यतः" इत्यत्र न सामर्थ्यप्रतिनियतिस्तदतिरेकेण, अपि तु तत्सत्तामात्रम् । तच सर्वासतामविशिष्टम् । इति कथं ततस्तस्यैवोत्पादः । तस्यैव तथाखभावत्वादिति चेत्, असत्तामात्रगोचरमिदमस्य अकारण-१० वत्सलत्वं न तदविशेषे विशेषप्रवृत्त्येदमपनेतुं न्याय्यम् । असतः
(खो० व्या०) किमित्याह-कारणत्वव्यवस्थितिः । यदि हि कार्यखभावसम्बद्धं कारणं भवेत् तदा-तस्मिन् काले कार्यमपि कारणवन्निष्पन्नमेव । इति-एवं किं कुर्वत् कारणं स्यात् । न किञ्चिदपीत्यर्थः । किञ्च क्रियमाणं कार्यमिति एवं १५ व्यतिरिक्तावधिविकलमेव अभूतभवनतया उक्तवद् विशिष्टं हेतुपरम्परात एव तत्सामर्थ्यमिति-एवं यथोक्तदोषाभावः। एतदप्यसमीचीनम्अशोभनम् । कुत इत्याह-प्रलापमानत्वात् । एतदेवाह तथाहीत्यादिना । तथाहीति पूर्ववत् । यदेव हि यदुत्पादने शक्तं तत एव तदुत्पादः, नान्यत इत्यत्र न सामर्थ्यप्रतिनियतिर्भवत्परिकल्पिता तदतिरेकेण-अधिकृतशक्त्य-२० तिरेकेण, अपि तु तत्सत्तामात्रम्-अधिकृतकारणसत्तामात्रमेकान्तेनैकस्वभावं तच-तत्सत्तामात्रं सर्वासतामविशिष्टमेकस्वभावतया । इति-एवं कथं ततःतत्सत्तामात्रात् तस्यैव-विवक्षितस्य कार्यस्यासत उत्पाद इति सर्वासदविशिष्टतया तस्य न युक्तोऽयमित्यभिप्रायः । एतदनादृत्य आह-तस्यैव-तत्सत्तामात्रकस्य तथाखभावत्वात्-'विवक्षितसज्जननस्वभावत्वात् । इति चेत्, एतदाशयाह- २५ असत्तेत्यादि । असत्तामात्रगोचरं वस्तुस्थित्या इदं-तथास्वभावत्वं नाम अस्यअधिकृतसत्तामात्रस्य अकारणवत्सलत्वमवधिरहितं तथास्वभावत्वं न तदविशेष-असत्तामात्र विशेषे सति विशेषप्रवृत्या-असद्विशेषगोचरतया इदंतथास्वभावत्वमकारणवत्सलाख्यमपनेतुं न्याय्यम् । अपनीयते च ततोऽसद्विशेष
१ द्रष्टव्यं १४२तम पृष्ठम् । २ 'प्रतिनियमस्तदति०' इति क-पाठः । ३ 'कारणवशान्निष्पन्न.' इति ङ-पाठः। ४ 'विवक्षितासज्जनन.' इति ङ-पाठः। ५'माने गोचर' इति रु-पाठः । ६ 'तदविशेषे सत्ताः' इति उ-पाठः ।