________________
१४२
अनेकान्तजयपताकाख्यं प्रकरणम्
[ षष्ठः
भावात् तस्मिन् कार्ये शक्तिनियमः स्यात् । न चैतदेवं, सतोऽसता संश्लेषायोगात्, तस्मान्निरवधिकमेव सामर्थ्यमवस्थितमिति सर्वतः ५सर्वस्योत्पत्तिप्रसङ्गो दुर्निवारः। स्यादेतत् न दुर्निवारः, सामर्थ्यप्रतिनियमवर्मितेषु भावेषु तदप्रवृत्तेः । यदेव हि यदुत्पादने शक्तं तत एव तदुत्पादः, नान्यतः। सा च तस्य सामर्थ्यप्रतिनियतिः स्वहेतोः तस्याप्यात्मनिमित्तादिति अनादित्वात् कार्यकारणपरम्पराया नानवस्थाऽपीष्टवाधिका। आदौ हि परिकल्प्यमाने तस्याहेतुकत्वं स्यात् । १० तच्चायुक्तम् , नित्यं सदसत्त्वापत्तेः, अत एव न कार्यसंश्लेषाभावतः कारणस्य निरवधिकसामर्थ्यदोषः हेतुपरम्परातस्तस्यैव तथास्वभाव. त्वादिति ॥ किञ्च कारणस्य कार्यखभाववियोगादेव कारणत्वव्यवस्थितिः ।
(स्वो० व्या०) १५ भावात् कारणात् तस्मिन् कार्य प्रतिनियत एव शक्तिनियमः स्यात्
अवधिभावेनेति भावः । न चैतदेवं कथमित्याह-सत:-कारणभावस्य असताकार्यभावेन संश्लेषायोगात् तस्मानिरवधिकमेव सामर्थ्य कारणभावस्य अवस्थितम् । इति-एवं सर्वतोऽभावात् सर्वस्योत्पत्तिप्रसङ्गो दुर्निवार इति भावनीयम् । स्यादेतत्-न दुर्निवारः सामर्थ्यप्रतिनियमवर्मितेषु २० भावेषु-पदार्थेषु तदप्रवृत्तेः-सर्वस्योत्पत्तिप्रसङ्गस्याप्रवृत्तेः । यदेव हि कारणं यदुत्पादने शक्तं-यत्कार्योत्पादने समर्थं तत एव कारणात् तदुत्पादःतत्कार्यप्रभवः, नान्यत:-कारणान्तरात् । सा च तस्य सामर्थ्यप्रतिनियतिः विवक्षितकारणस्य स्वहेतोस्तस्यापि एषा आत्मनिमित्तादपरतः । इति
एवमनादित्वात् कार्यकारणपरम्पराया न अनवस्थापि इष्टबाधिका । २५ आदौ हि परिकल्प्यमाने तस्य-कार्यादेरहेतुकत्वं स्यात् । तच्चायुक्तमहेतुकत्वम् । कुत इत्याह-नित्यं सदसत्त्वापत्तेः, प्रक्रमात् कार्यादेरिति,अत एव न कार्यसंश्लेषाभावतः कारणस्य निरवधिकसामर्थ्यदोषः, हेतुपरम्परातस्तस्यैव-कारणस्य तथाखभावत्वात्-विशिष्टकार्यजननस्वभावत्वादिति ॥
अभ्युच्चयमाह किश्चेत्यादिना । किञ्च कारणस्य कार्यस्वभाववियोगादेव १ परिकल्पमाने' इति क-पाठः । २ 'कार्यश्लेषाभावतः' इति ग-पाठः । ३ ‘स्यात्' इति गप्रतो न विद्यते। ४ 'प्रवृत्तेः सर्वतः सर्व.' इति -पाठः ।