________________
स्वोपज्ञव्याख्यामुनिचन्द्रीय विवरणयुतम्
(मूलम् )
तन्निवृत्तावेव तदनन्तरभावित्वे तस्य परमार्थतोऽसत एव सद्भावापत्तिः, अपरस्य तथा भाविनोऽभावात् सा चायुक्ता निरुपाख्यस्य खरविषाणादेरिव जन्मार्थविशेषायोगात्, अन्यथा सर्व एवासन्तः ५ यतः कुतश्चिजन्मासादयेयुरिति हेतुफलनियमो न भवेत् ॥
स्यादेतत् प्रतिनियतशक्तयो हि भावास्तेभ्यः कुतश्चित् किश्चिदेवोत्पद्यते, न सर्वमसत्त्वाविशेषेऽपीति, तदयुक्तम् । यदि हि कायैः संक्लि ( लिष्टमूर्त्तयः प्रत्ययाः स्युस्तदा तेषां प्रतिनियत कार्यसम्बन्ध( स्वो० व्या० )
एतदाशवाह - न, अनेकदोषप्रसङ्गात् । एनमेवाह-तन्निवृत्तावेव हेतुनिवृत्तावेव तदनन्तरभावित्वे- हेत्वनन्तरभावित्वे (तस्य - ) फलस्य परमार्थतः असत एव सद्भावापत्तिः । कथमित्याह- अपरस्य कस्यचित् तथा भाविनः फलतया भाविनोऽभावात् । सा चायुक्ता असत एव सद्भावापत्तिरिति निरुपाख्यस्य खरविषाणादेरिवेति निदर्शनं, जन्मार्थविशेषायोगादिति युक्तिः । इत्थं १५ चैतदङ्गीकर्त्तव्यमित्याह - अन्यथा सर्व एवासन्तः वान्ध्येयादयः यतः कुतचिजन्मासादयेयुरिति कृत्वा हेतुफलनियमो न भवेत् ॥
स्यादेतत्- प्रतिनियतशक्तयो हि भावास्तेभ्यः- भावेभ्यः कुतश्चित्भावात् किश्चिदेवोत्पद्यते, न किञ्चिदेवोत्पद्यते । न सर्वमसत्त्वाविशेषेऽपि इति । एतदाशाह - तदयुक्तम् । कथमित्याह-यदि हि कायैः संश्लिष्ट - २० मूर्त्तयः प्रत्ययाः स्युस्तदा तेषां प्रत्ययानां प्रतिनियतकार्यसम्बन्ध(विवरणम् )
(१३-१४) अपरस्य कस्यचित् तथाभाविनः फलतया भाविनोऽभावादिति । सर्वथा कारणनिर्वृत्तौ कार्यसत्तामङ्गीक्रियमाणायां नास्त्यभावमपहाय अपरः कश्चिद् वस्तुविशेषो यः कार्यरूपतया परिणतिं लभत इत्यर्थः । अतः सामर्थ्याद्सत एव २५ सद्भावापतिरायाता ||
अधिकारः ]
१४१
१०
(१५) जन्मार्थ विशेषायोगादिति । जन्म - उत्पादलक्षणो योऽर्थविशेषः - धर्म - भेदरूपस्तस्याभावादभावस्य - तुच्छरूपस्य ह्यभावस्य नास्ति जन्मलक्षणार्थविशेषः । अन्यथा बान्ध्येयादीनामपि जन्म स्यात् ॥
(२०-२१) कार्यैः संक्कि(?श्लिष्टमूर्त्तयः प्रत्ययाः स्युरिति । शक्तिरूपतया ३० यदि कार्याणि कारणेषु भवेयुरित्यर्थः ॥
१ ‘असत्य एव' इति ङ-पाठः । २ 'भावा वर्तन्ते तेभ्यः' इति ङ-पाठः । ३ 'सक्लिष्टमूर्तयः ' इति क-पाठः ।