________________
[षष्ठः
१४०
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम्) उभयत्र भावाविशेषादिति । आकारादिभेदादविशेषासिद्धिरिति चेत्, न, तद्वद् भावभेदाभावात् तथाऽनुभवसिद्धत्वात्, अन्यथा ५ अन्यतराभावापत्तेः, तदात्मनाऽपि विशेषात्, तत्तथाऽभावेन तददलत्वाचेति ॥
स्यादेतत्-हेत्वनिवृत्तिपक्षे तत्तादवस्थ्येन हेतुफलभावानुपपत्तेः निवृत्त्यनिवृत्तिपक्षस्य च विरुद्धत्वात् , तनिवृत्तावेच तदनन्तरभावित्वेन तद्भावैसिद्धिः गत्यन्तराभावादिति, न, अनेकदोषप्रसङ्गात्,
(खो० व्या०) अस्तीति क्षणिक इति कृत्वा । अप्रसङ्गेऽपि अनवस्थायाः तद्भावाभेदकत्वेनकारणादिभावाभेदकत्वेन हेतुना । किमित्याह-अन्वयापत्तेः । भावार्थमाहउभयत्र-कारणे कार्यं च भावाविशेषादिति । आकारादिभेदात् तयोः
अविशेषासिद्धिरिति चेद् भावस्य । एतदाशङ्याह-न, तद्वत्-आकारादिभेदवत् १५ भावभेदाभावात् , कार्य-कारणयोरिति प्रक्रमः । अभावश्च तथाऽनुभवसिद्धत्वात् भावाभेदतयेति । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा-एवमनभ्युपगमे अन्यतरस्य-कारणतादेरभावापत्तेः। आपत्तिश्च तदात्मनाऽपि-भावात्मनाऽपि विशेषात् । उपचयमाह-तथा तत्तथाऽभावेन तस्य-कारणस्य तथा-कार्यतया
अभावेन हेतुना। किमित्याह-तददलत्वाचेति तस्य-कार्यस्यानुपादानत्वाचेति । २० न हि सर्वथा कारणनिवृत्तौ अभावाहते कार्यस्योपादानमिति भावनीयम् ॥ __ स्यादेतत्-हेत्वनिवृत्तिपक्षे कारणनित्यतया तत्तादवस्थ्येन तस्य-हेतोः तादवस्थ्येन हेतुना हेतुफलभावानुपपत्तेः निवृत्यनिवृत्तिपक्षस्य च हेतुगतस्य विरुद्धत्वात् तन्निवृत्तावेव-हेतुनिवृत्तावेव तदनन्तरभावित्वेनहेत्वनन्तरभावित्वेन तद्भावसिद्धिः-फलभावसिद्धिः गत्यन्तराभावादिति ।
(विवरणम्) (१७-१८) भावात्मनाऽपि विशेषादिति । यदि हि कार्य-कारणयोः परस्परं भावात्मनाऽपि-सत्तारूपेण विशेषः स्यात् तदाऽन्यतरस्य भाव एव स्यात् । यतो भावात्मना विशेषस्तदैव भवति, यदि एकः कश्चिद् भावः सत्ताभावो भवतीति ॥
१ 'तत्तथाऽभावेनातददलत्वा०' इति क-पाठः । २ 'च' इति पाठो ग-प्रती नास्ति । ३ 'सिद्धेः गत्य.' इति ग-पाठः।