________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् १३९
(मूलम् ) निष्पत्तेस्तदानीं कार्यस्य,तदित्थं कारणक्षणानन्तरभावित्वात् कार्यस्य अविनष्टाच हेतोरुत्पादः, न च यौगपद्यप्रसङ्ग इति। एतदप्यचारु, खतन्त्रविरोधात् , कारणभावाविच्छेदित्वेन कार्यभावस्यान्वयापत्तेः, ५ भावाविच्छेदस्यान्वयत्वात् , तस्य चेत्थमगीकरणात्, सदैव भावाभावाभावादिति । कारणभावादन्य एव कार्यभाव इति चेत्, न, एकान्तेन अन्यत्वासिद्धेः, तत्त्वतो भेदकाभावात् तदतिरिक्तक्षणान. भ्युपगमात्, अभ्युपगमे तदक्षणिकत्वप्रसङ्गात् तस्याप्यपरक्षणानुपपत्तेः अनवस्थाप्रसङ्गात्, अप्रसङ्गेऽपि तद्भावाभेदकत्वेनान्वयापत्तेः, १०
(स्वो० व्या०) निष्पत्तेः कारणात् तदानीं-द्वितीयक्षणे कार्यस्य, तदित्थं कारणक्षणानन्तरभावित्वात् कार्यस्य । किमित्याह-अविनष्टाच हेतोरुत्पादः कार्यस्य न च योगपद्यप्रसङ्गो हेतु-फलयोरिति । एतदाशङ्कयाह-एतदप्यचारु । कुत इत्याह-स्वतन्त्रविरोधात् । एनमेवाह-कारणभावाविच्छेदित्वेन उक्तनीतेः १५ कार्यभावस्य अन्वयापत्तेः कारणात् । आपत्तिश्च भावाविच्छेदस्यैवान्वयत्वात् तस्य च-भावाविच्छेदस्य इत्थम्-उक्तनीत्याऽङ्गीकरणात् । भावार्थमाहसदैव भावाभावाभावात् , नाशाव्यवधानादिति । कारणभावादन्य एच कार्यभाव इति चेत्, नैवं भावाविच्छेद इत्यभिप्रायः । एतदाशङ्कयाह-न, एकान्तेन-सर्वथा अन्यत्वासिद्धेः। असिद्धिश्च तत्त्वतः-परमार्थेन भेदका-२० भावात् । अभावश्च तदतिरिक्तक्षणानभ्युपगमात्-कारणभावाद्यतिरिक्तक्षणानभ्युपगमात् । अभ्युपगमे तदतिरिक्तक्षणस्य तदक्षणिकत्वप्रसङ्गात्क्षणस्याक्षणिकत्वप्रसङ्गात् । प्रसङ्गश्च तस्यापि-क्षणस्य अपरक्षणानुपपत्तेः। अनुपपत्तिश्च अनवस्थाप्रसङ्गात् तस्याप्यपरक्षणाभावेनाक्षणिकत्वात् , क्षणोऽस्य
(विवरणम्) (१८) नाशाव्यवधानादिति । नाशेनाव्यवधानं नाशाव्यवधानं तस्माद् । भावानन्तरं भाव एवोत्पन्नो न तुच्छोऽभाव इति भावाविच्छेदादन्वय एव ।।
(२१-२२) कारणभावाद्यतिरिक्तक्षणानभ्युपगमादिति । कारणस्य भावःसत्ता कारणभावः । 'आदि'शब्दात् कार्यभावपरिग्रहः । तदतिरिक्तक्षणस्यानभ्युपगमात् ॥
२५
१ 'विच्छेदस्त्वान्वय.' इति क-पाठः। २ 'अन्यथासिद्धेः' इति ङ-पाठः ।