________________
- अनेकान्तजयपताकाख्यं प्रकरणम् [षष्ठः
(मूलम्) इति समाधिरास्थीयते । तत्रापि वक्तव्यम्-कोऽयं हेतुविनाशः? किं हेतुस्वभाव एव, यथाऽऽहु:-"क्षणस्थितिधर्माभाव एव नाश इति?" ५ किं वा हेतुप्रत्यस्तमयः, यथाऽऽहु:-"न भवत्येव केवलम्" ?। किश्चातः यदि हेतुस्वभावः सैव हेतु-फलयोयौंगपद्यापत्तिः, तन्नाशोत्पादयोरेव तत्त्वात्, तयोश्च योगपद्याभ्युपगमात् । अथ हेतुप्रत्यस्तमयः, न तस्य कार्योत्पादसमानकालता, निःस्वभावत्वेन कादाचित्कत्वायोगात्, तत्त्वे वा तस्य सहेतुत्ववस्तुत्व(?त्वादि)प्रसङ्गादिति ॥ १०. स्यादेतद् द्वितीये क्षणे कार्यस्य सत्तोत्पादात्मिका। प्रथमे तु कारणं जातम् । तच्चाविनष्टमेव तदा। स हि तस्य खसत्तायाः कालः, क्षणभावित्वात् तु तत् फलकाले निवर्तते, अनुवृत्तावपि तस्य नैरर्थक्य
(खो० व्या०) दात् कारणात् नायं दोषः-अनन्तरोदित इति समाधिरास्थीयते। तत्रापि५ समाधौ वक्तव्यं भवता-कोऽयं हेतुविनाशो नाम ? । किं हेतुस्वभाव एव हेतुविनाशो यथाऽऽहुः तार्किकचूडामणयः-"क्षणस्थितिधर्माभाव एव नाश इति"? किं वा हेतुप्रत्यस्तमयः-हेतुविनाशः यथाऽऽहुः त एव-"न भवति एव केवलम्" इति ? । 'किश्चातः? उभयथाऽपि दोषः । तमाह-यदि हेतुस्व
भावः हेतुविनाशः सैव हेतु-फलयोः । किमित्याह-योगपद्यापत्तिः । कथ२० मित्याह-तन्नाशोत्पादयोरेव-हेतुफलनाशोत्पादयोरेव तत्त्वात्-हेतुफलतत्त्वात् तयोश्च-तन्नाशोत्पादयोर्योगपद्याभ्युपगमादिति ॥
अथ हेतुप्रत्यस्तमयः-हेतुविनाशः न तस्य-हेतुप्रत्यस्तमयस्य कार्योत्पादसमानकालता। कुत इत्याह-निःस्वभावत्वेन हेतुना कादाचित्कत्वायोगात् तस्य तत्त्वे वा-कादाचित्कत्वे वा तस्य सहेतुत्ववस्तुत्वादिप्रसङ्गादिति ।। २५ स्यादेतदिति पूर्वपक्षोपन्यासः । द्वितीये क्षणे-कारणानन्तरभाविनि कार्यस्य
सत्ता। किम्भूतेत्याह-उत्पादात्मिका प्रथमे तु क्षणे कारणं जातम् । तच्च कारणमविनष्टमेव तदा-खक्षणे । किमित्यत आह-स यस्मात् तस्य-कारणस्य स्वसत्तायाः कालो वर्तते क्षणभावित्वात् तु तत्-कारणं फलकाले निवतते, द्वितीयक्षण इत्यर्थः । अनुवृत्तावपि तस्य-कारणस्य फलकाले नैरर्थक्यं
१ 'तत्त्वे वा, सहेतु०' इति ग-पाठः । २ 'भावो नाश०' इति ङ-पाठः । ३ तथाऽऽह' इति उ-पाठः। ४ 'खलक्षणे' इति उ-पाठः ।