________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) वा हेतुत उत्पद्येतानष्टा वा नष्टानष्टाद् वेति । कारणमप्यनेकमेकखभावस्य कार्यस्य जनकं भवेत् , यद्वाऽनेकखभावस्य, अथवैकमेकखभावस्य, यदि वा अनेकखभावस्येति सर्वथाऽपि दोषः । तथाहि- ५ न नष्टादुत्पद्यते, तस्य तदानीमसत्त्वात् तदहेतुकत्वापत्तेः, सदाभावाभावप्रसङ्गात् । नाप्यनष्टात्, कार्य-कारणयोयोगपद्यापत्तेः, सव्येतरगोविषाणादिषु तदनभ्युपगमात्, अभ्युपगमे च प्रतीतिविरोधात् । नापि नष्टानष्टात्, नियोगतो विरोधापत्तेः, तस्यैव तथाभवनायोगात्, योगेऽप्यभ्युपगमप्रकोपादिति ॥
अथ तुलोन्नामावनामवद्धेतुविनाशकाले कार्योत्पादान्नायं दोष
(खो० व्या०) वा हेतुत उत्पधेत तदभावेऽनष्टाद् वा सद्भाव एव नष्टानष्टादु वेति । परिगंतिमत् कारणमपि तत् अनेकं-रूपादि एकखभावस्य कार्यस्य-विज्ञानादेः जनकं भवेत् , यद्वाऽनेकस्वभावस्य चित्रधर्मणः । अथवैकं कारणं-रूपायेव १५ एकस्वभावस्य-रूपादेरेव कार्यस्य । यदि वाऽनेकखभावस्य-कार्यस्य एकमेव कारणमिति एतावन्तः पक्षाः। इह च सर्वथाऽपि दोषः । तमाह तथाहीत्यादिना । तथाहि-न नष्टादुत्पद्यते कारणात् कार्यम् , तस्य-नष्टस्य तदानींकार्यकाले असत्त्वात् , तदहेतुकत्वापत्तेः तस्य-कार्यस्याहेतुकत्वापत्तेः । एवं च सदाभावाभावप्रसङ्गात् , तस्याहेतुकत्वाविशेषणेति भावः । नाप्यनष्टात् , २० कारणात् कार्यमुत्पद्यत इति प्रक्रमः । कुत इत्याह-कार्य-कारणयोयोगपद्यापत्तेः। ततः किमित्याह-सव्येतरगोविषाणादिषु तदनभ्युपगमात्-कार्यकारणभावानभ्युपगमात् , अभ्युपगमेऽपि तत्र कार्यकारणभावस्य प्रतीतिविरोधात् । नापि नष्टानष्टात् कारणात् कार्यमुत्पद्यते, नियोगतो विरोधापत्तेः, नष्टानष्टविरोधस्य अनुभवा-ऽनुमानाभ्यामविरोधेऽप्यभ्युपगमविरोधादित्यर्थः । तथा चाह-२५ तस्यैव-कारणस्य तथा-कार्यतया भवनायोगात्, योगेऽपि तत्तत्स्वभावतया अभ्युपगमप्रकोपादिति ॥ अथ तुलोन्नामावनामवदिति निदर्शनम् । हेतुविनाशकाले कार्योत्पा
१ तनाव एव' इति ङ-पाठः । २ गतिमतः कारणं.' इति उ-पाठः । ३ अथैकं इति -पाठः।
अनेकान्त. १८