________________
[ षष्ठः
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम्) क्रियामात्मसात्कुर्वाणाः समुपरोधहेतुभिर्यदा पीड्यन्ते दुःखविशेषाध्यासितोत्तरक्षणोत्पत्तितस्ततस्ते निर्विद्युक्तोत्तरोत्तरक्षणसमुत्पादा५निर्विण्णाः तदुत्तरोत्तरश्रुतभावनादिना अक्लिष्टानेकक्षणपरम्परोत्पादेन दान-दम-संयमाद्यनेकप्रकारशुभधर्माध्यासाद रागादिबीजोन्मूलनसमर्थमार्गभावनातःप्रतिकलमवदायमानविशुद्धपर्यन्तवत्तिक्षणोत्पादाधिगतविमुक्तयः कथ्यन्त इत्यनवद्यम् ; अन्यथाऽऽत्मनो व्यवस्थितत्वादु वेदनाऽभावादू भावेऽपि विकारान्तराभावात् प्रतिपक्षाभ्यासेनाप्यनाधेयातिशयत्वान्मुत्त्यसम्भवः। इत्येतदपि तत्त्वा. परिज्ञानविजृम्भितमेव, भवत्पक्षे कार्यकारणभावस्यैवायोगात्, अयोगश्च विकल्पानुपपत्तेः । तथाहि-तत् कार्यमुत्पद्यमानं नष्टाद्
(खो० ध्या०) क्षणिकतयैव समुपरोधहेतुभिः-ज्वरादिभिः यदा पीड्यन्ते दुःखविशेषा५ध्यासितोत्तरक्षणोत्पत्तितः प्रबन्धेन ततस्ते-क्षणिकाः पदार्था निर्विद्युक्तोत्तरोत्तरक्षणसमुत्पादात् प्रबन्धेन निर्विण्णाः सन्तः तदुत्तरोत्तरश्रुतभावनादिना अक्लिष्टानेकक्षणपरम्परोत्पादेन दान-दम-संयमाद्यनेकप्रकारशुभधर्माध्यासात्-प्रस्तुतधर्माध्यासेन रागादिबीजोन्मूलनसमर्थ
मार्गभावनातः, नैरास्यभाव इत्यर्थः, प्रतिकलं कलां कलां प्रति अवदाय२० माना:-शुद्ध्यमानाच ते विशुद्धपर्यन्तवर्तिक्षणोत्पादाधिगतविमुक्तयश्चेति समासः त एवम्भूताः कथ्यन्त इत्यनवद्यम् । इत्थं चैतदङ्गीकर्तव्यमिति विपक्षे बाधामाह अन्यथेत्यादिना । अन्यथा-एवमनभ्युपगमे आत्मनो व्यवस्थितत्वात् अप्रच्युतानुत्पन्नस्थिरैकखभावतया वेदनाऽभावात् भावेऽपि वेदनाया विकारा न्तराभावात् प्रतिपक्षाभ्यासेनापि शास्त्रविहितेन अनाधेयातिशयत्वाच २५ कारणात् मुक्त्यसम्भवः । इति-एवं पूर्वपक्षमाशङ्कयाह सिद्धान्तवादी-एतदपि
अनन्तरोक्तं तत्त्वापरिज्ञानविजृम्भितमेव । कथमित्याह-भवत्पक्षे कार्यकारणभावस्यैवायोगात् कारणात् । अयोगश्च अस्य विकल्पानुपपत्तेः। एनामेवाह तथाहीत्यादिना । तथाहीति पूर्ववत् । तत् कार्यमुत्पद्यमानं नष्टाद्
१ 'भावनादिना क्लिष्ट' इति ग-पाठः। २ 'शुभकर्मा०' इति ग-पाठः। ३ समासत एव. म्भूताः' इति-पाठः।