________________
अधिकारः ]
स्वोपज्ञव्याख्यामुनिचन्द्रीय विवरणयुतम्
(मूलम् )
१३५.
यमर्थः । तथाहि - रसायनादिभिः प्रथमोपनिपातवेलायामाहितो विशेषो 'देहे तदुत्तरोत्तरावस्थाभेदोपजननेन पश्चाद् देहाद्यतिशयस्य बल-मेधाऽऽरोग्यादेर्निष्पादकः, तथा लाक्षारसनिषे कोपनीत सामर्थ्य ५ मातुलिङ्गकुसुममुत्तरोत्तर विशेषोपजननेन फलोदरान्तवर्तिनः केशरस्य रेक्तताहेतुर्भवत्येवेति दृष्टत्वान्मुच्यतामभिनिवेशवेशसम् ॥
rathi - 'मुक्तिरपि प्राणिनामसङ्गतैवेत्यादि यावदयं च प्रतिक्षणनिरन्वयनश्वरत्वे सत्यात्मादिवस्तुनो न घटामुपैति' इति, तदप्ययुक्तम्, प्रतिक्षणनिरन्वयनश्वरात्मपक्ष एव युज्यमानत्वात् ॥१७ तथाहि - नैरात्म्यवादिनः क्षणिकाः पदार्था यथाहेतुसन्निधानं वि( खो० व्या० )
प्रतीतश्चायमर्थो लोकेऽपि । तथाहि - रसायनादिभिः - सञ्जीवनादिलक्षणैः प्रथमोपनिपात वेलायामाहितो विशेषो जरादिविघातची जलक्षणः 'देहे तदुत्तरोत्तरावस्थाभेदोपजननेन - विशिष्ट विशिष्टतरभेदतः पश्चाद् देहा (घ) ति- १५ शयस्य - प्रकृष्टदेहादेः बलमेधारोग्यादेर्निष्पादको भवति । निदर्शनान्तरमाह तथेत्यादिना । तथा लाक्षारस निषेकोपनीत सामर्थ्यं मातुलिङ्गकुसुमं - बीजपूरकपुष्पमुत्तरोत्तर विशेषजननेन तत्सन्तान एव फलोदरान्तरवर्त्तिनः केशरस्य मातुलुङ्गसम्बन्धिन एव रक्तताहेतुर्भवत्येव । इति एवं दृष्टत्वात् कारणात् मुच्यतामभिनिवेश वैशसम् - अभिनिवेशव्यसनम् ॥
ari सिद्धान्तवादिना - 'मुक्तिरपि प्राणिनामसङ्गतैवेत्यादि यावदयं व प्रतिक्षणनिरन्वय नश्वरत्वे सत्यात्मादिवस्तुनो न घटामुपैति' तदप्ययुक्तम् । कुत इत्याह-प्रतिक्षणनिरन्वयनश्वरात्मपक्ष एव युज्यमानस्वात् मुक्तेः । एतदेवाह तथाहीत्यादिना । तथाहीति पूर्ववत् । नैरात्म्यवादिनः क्षणिका: पदार्था यथाहेतुसन्निधानं ते विक्रियामात्मसात्कुर्वाणाः २५ ( विवरणम् )
(२४-२५) नैरात्म्यवादिनः क्षणिकाः पदार्था इति । नैरात्म्यवादिनः- बौद्धस्य मते क्षणिकाः पदार्थाः विज्ञानसन्तानरूपा एवात्र गृह्यन्ते, तेषामेव 'समुपरोधहेतुभ्रिदण्डादिभिर्यदा पीड्यते' इत्यादि "विशेषणानां घटमानकत्वात् ॥
१ 'देहतदुत्तरो०' इति ग-पाठः । २ 'रक्ततो हेतु०' इति क- पाठः । ३ १३२ तमे पृ । * 'प्रथमोपरिपात०' इति क- पाठः । ५ 'देहोत्तरोत्तरा०' इति ङ-पाठः । ६ 'मैधारोग्यविष्यादको ' इवि कु- पाठः । ७ 'दृष्टान्तत्वात्' इति ङ-पाठः । ८ १३२तमे पृष्ठे । ९ 'प्राणिनामसम्भवेत्यादि इति क-पाठः । १० ' पदार्थो सं (?) विज्ञान ०' इति ख- पाठः । ११ 'विशेषानां ' इति ख- पाठः
२०