________________
१३४ अनेकान्तजयपताकाल्यं प्रकरणम्
[षष्ठः (मूलम्) 'या कुशले प्रवर्तते स यद्यपि तदैव सर्वथा विनश्यति' तथापि निरुध्यमानः खानुरूपकार्योत्पादनसमर्थ सामर्थ्य विज्ञानसन्ततौ आधाय पनिरुध्यते। यतः सामर्थ्यविशेषादुत्तरोत्तरक्षणपरिणामेन कालान्तर
परिणामसञ्जातवासनापरिपाकात्मकारिप्रत्ययसमवधानोपनीतप्रबो'धात् फलमिष्टमनिष्टं चोपजायते, ततो न यथोक्तदोषः । प्रतीतश्चा
(खो० व्या०) "यस्मिन्नेव तु सन्ताने आहिता कर्मवासना ।
फलं तत्रैव सन्ताने कर्पासे रक्तता यथा ॥"३ ... तथाहि-यः कुशले प्रवर्तते स यद्यपि तदैव-प्रवृत्तिकाल एव सर्वथा विनश्यति तथापि निरुध्यमानः स्वानुरूपकार्योत्पादनसमर्थ सामर्थ्य विशिष्टं प्रतीत्योत्पादेन विज्ञानसन्ततावाधाय निरुध्यते । यतः सामर्थ्यविशेषादाहितात् उत्तरोत्तरक्षणपरिणामेन प्रशान्तवाहितया कालान्तर१५परिणामेन सजातश्चासौ वासनापरिपाकच, स एव आत्मकारी चासौ
प्रत्ययश्च तस्य समवधानं तेन उपनीतप्रबोधात् सामर्थ्य विशेषात् फलमिष्टमनिष्टं चोपजायते ततो न यथोक्तदोष ऐहिकामुष्मिकव्यवहारोच्छेदलक्षणः।
(विवरणम्) - (१४) प्रशान्तवाहितयेति । प्रशान्त:-निरुत्सुकः सन् वैहति-प्रवर्त्तते सर्व२० कार्येषु यः स तथा तस्य भावः-तत्ता तया । कुशलानुष्ठात्पुरुषापेक्षया चेदं विशेषणम् , अकुशलानुष्ठायिनस्त्वप्रशान्तवाहितैव ॥
(५-७) कालान्तरपरिणामसञ्जातवासनापरिपाकात्मकारिप्रत्ययसमवधानोपनीतप्रबोधादिति सूत्रम् । अत्रैवं समास:-कालान्तरपरिणामेन सञ्जातो वासनायाः परिपाको यस्य सामर्थ्य विशेषस्य सः, तथाऽऽत्मानं कार्यसम्बन्धिनं कुर्वत २१ इत्येवंशीला आत्मकारिणः, ते च ते प्रत्ययाश्व-कारणानि तेषां समवधाननिकटीभावः तेनोपनीत:-ढौकितः प्रबोधो यस्य स तथा । ततः कालान्तरपरिणामेन सञ्जातो वासनापरिपाकश्चासौ आत्मकारिप्रत्ययसमवधानोपनीतप्रबोधश्च तस्मात् सामर्थ्य विशेषात् ।।
(१६-१७) इष्टमनिष्टं चोपजायत इति । प्रशान्तवाहितायामिष्टम् , अन्यथा ३० त्वनिष्टमित्यर्थः ॥
१ सन्तुलनार्थ द्रष्टव्ये १३१ तमं पृष्ठं १३२ तम च। २ 'त्पादने समर्थ' इति क-पाठः । ३ अनुष्प् । ४ 'जायतेऽतो न' इति उ-पाठः। ५'बहते प्रवर्त। प्रतिष-पाठः।