________________
अधिकारः ]
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
पीड्यतेऽन्यश्च निर्विद्यतेऽन्यस्य च विरागमुक्ती इत्यतोऽशोभनमेतत्, अतिप्रसङ्गात् । एवमामुष्मिक व्यवहारोऽप्यसङ्गत इति स्थितम् ॥
स्यादेतद् विशिष्टकार्यकारणभावनिबन्धनः सर्व एवायमैहिकामु- ५ ष्मिकव्यवहारः । तथाहि - विशिष्टां रूपादिसामग्रीं प्रतीत्य विशिष्टमेव संवेदनमुपजायते, ततश्च तदेव तस्य ग्राहकमभिधीयते, न पुनरन्यत्, अतिप्रसङ्गात् । एवं स्मरणाद्यपि भावनीयमिति ॥
१३३
कृतना शाकृताभ्यागमप्रसङ्गोऽप्यत्रानवकाश एव, क्षणभेदेऽपि उपादानोपादेयभावेनैकस्यामेव सन्ततौ आहितसामर्थ्यस्य कर्मणः १० फलदानात्, अतो य एव सन्तानः कर्त्ता स एवोपभोक्तेति । तथाहि( स्वो० व्या० ) पीड्यतेऽन्यश्च निर्विद्यते, तदत्यन्तभेदात् । अन्यस्य च 'विरागमुक्ती, इति अत एव हेतोः अतोऽशोभनमेतत्- अनन्तरोदितम्, अतिप्रसङ्गात्, सैन्तानान्तरफलापत्तेः नानात्वाविशेषादित्यर्थः । एवमामुष्मिकव्यवहारोऽप्य- १५ सङ्गत इति स्थितम् ॥
स्यादेतत्- अथैवं मन्यसे - विशिष्टकार्यकारणभावनिबन्धनः सर्व एवायम् - अनन्तरोदितः ऐहिकामुष्मिक व्यवहारः । तथाहीत्यादि । विशिष्टाम् - अपेक्षकार्यजननसमर्थां रूपादिसामग्रीं प्रतीत्य विशिष्टं संवेदनमुपजायते । ततश्च तदेव - संवेदनं तस्य रूपादेग्रहकमभिधीयते; न २० पुनरन्यत् - संवेदनान्तरम्, अतिप्रसङ्गात् । एवं स्मरणाद्यपि भावनीयं तत्संस्कारनिबन्धनत्वेन इति ॥
कृतनाशाकृताभ्यागमप्रसङ्गोऽप्यत्र - विशिष्टकार्यकारणभावपक्षे अनवकाश एव । कथमित्याह- क्षणभेदेऽपि सति उपादानोपादेयभावेन, हेतुफलभावेनेत्यर्थः । एकस्यामेव सन्ततौ किमित्याह - आहित सामर्थ्यस्य २५ कर्मणः प्रतीत्य भवनद्वारेण फलदानात् कारणात्, अतो य एव सन्तानः कर्ता सामान्येन स एव (उप) भोक्तेति, यथोक्तमस्मद्वृद्धैः
( विवरणम् )
(२२) तत्संस्कारनिबन्धनत्वेनेति । तस्य- ज्ञानस्य संस्कार : - वासनारूपो निबन्धनं—कारणं यस्य स्मरणादेस्तत् तथा तस्य भावः- तत्त्वं तेन ||
३०
१ 'विरागविरागमुक्ती' इवि -पाठः । २ ' सन्तानान्तरे सन्तानान्तर ० ' इति ङ-पाठः । ३ 'त्याह हित०' इति पाठः ।