________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[पष्टः (मूलम्) विनश्यति। कुशलमपि च कर्मात्मलाभसमनन्तरमेव निरन्वयमपैति।
अतः कृतनाशः।क्षणान्तरस्य च चिरनष्टात् कर्मणः पुनरायत्यां फलो. ५ दयाभ्युपगमे सत्यकृताभ्यागम इति । न चैतद् युक्तियुक्तम् । तथा मुक्तिरपि प्राणिनामसङ्गतैव । तथाहि-तीव्रतरवेदनानिर्भिन्नशरीरः संसारविमुखया प्रज्ञया विभावितसंसारदोषो निरास्थो जिहासुर्भवमुपादित्सुनिर्वाणं रागादिफ्लेशपक्षविक्षोभदक्षमामुखीकृत्य मार्गम
मलं क्रमेणावदायमानचित्तसन्ततिः निरतिशयपेशलरसामाखाद१. यति निर्वृतिमिति न्यायः। अयं च प्रतिक्षणनिरन्वयनश्वरत्वे सति
आत्मादिवस्तुनो न घटामुपैति । तथाहि-अन्य एव दुःखैः सांसारिकैः
(खो० व्या०) प्रसङ्गात् । एनमेवाह-तथाहीत्यादि । तथाहीति पूर्ववत् । यः कुशले प्रवर्तते
स तदैव सर्वथा विनश्यति, निरन्वयनश्वरत्वात् । कुशलमपि च कर्म१५ पुण्याख्यमात्मलाभसमनन्तरमेव निरन्वयमपैति । अतः कृतनाशा, तदा फलमदत्त्वैव नाशात्।क्षणान्तरस्य च-कर्तृक्षणादन्यस्य चिरनष्टात् कर्मणः पुनरायत्याम्-आगामिनि काले फलोदयाभ्युपगमे सति किमित्याह-अकृताभ्यागम इति । न चैतत्-अनन्तरोदितं युक्तियुक्तम् । तथा मुक्तिरपि
प्राणिनामसङ्गतैव निरन्वयक्षणिकतायाम् । कथमित्याह-तथाहीत्यादि । तथा२० हीति पूर्ववत् । तीव्रतरवेदनानिर्भिन्नशरीरः सन् जरादिना संसारविमुखया
प्रज्ञया लोकोत्तरया विभावितसंसारदोषो जन्मादिभावेन निरास्था-संयोगवियोगसारत्वात् संसारस्यास्थारहितः जिहासुः-हातुमिच्छुर्भवमुपादित्सु:
उपादातुमिच्छनिर्वाणं रागादिक्लेशपक्षविक्षोभदक्षम् । किमित्याह-आमु. खीकृत्य मार्ग-सम्यग्दर्शनादिलक्षणं अमलं-निरतिचारं क्रमेणावदायमान२५ चित्तसन्ततिः, विशुद्ध्यमानचित्तसन्तान इत्यर्थः, निरतिशयपेशलरसांपरमपेशलप्रीतिमाखादयति निवृतिमिति न्यायः । अयं च-न्यायः प्रतिक्षणनिरन्वयनश्वरत्वे सति आत्मादिवस्तुनो न घटामुपैति । एतदेव दर्शयति तथाहीत्यादिना । तथाहि-अन्य एव दुःखैः सांसारिकैः शारीरमानसैः
'.. १ निर्विष्णः शरीरी संसार.' इति ग-पाठः । २ 'निर्विनशरीरः' इति ङ-पाठः । ३ 'निर्वृत्तिनिमित्तन्यायः' इति उ-पाठः।