________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) क्षिणः तद्भावाभावाविशेषेण नित्यादपि तद्भावसिद्धेः । भावोऽपि नावगम्यत इति चेत्, को वा किमाह? । आत्मानुमानतःक्षणिकताधिगतिरिति चेत्, न, आत्माभावे तस्याप्यप्रवृत्तेः। इत्यलं प्रसङ्गेन ५ विजृम्भितमेवात्रास्मत्वयूथ्यैरिति ॥ . मरणाद्यसम्भवस्तु प्रतिक्षणनिरन्वयनश्वरत्वे सति वस्तुनः सुभाव्य एव । न ह्यन्येनान्यस्मिन्ननुभूतेऽन्यस्यान्योपलब्धी स्मरणप्रत्यभिज्ञानादयो युज्यन्त इति । एवमैहिकसकललोकसंव्यवहाराभाव इति स्थितम् । आमुष्मिकव्यवहारस्तु सुतरामसङ्गतः, कृतनाशा- १० कृताभ्यागमप्रसङ्गात् । तथाहि-यः कुशले प्रवर्तते स तदैव सर्वथा
(स्वो० व्या) तत्त्वतः-परमार्थेन तदुपकारानपेक्षिणोऽन्वयाभावेन तद्भावाभावाविशेषेण तस्य-वस्तुनो भावाभावाभ्यामविशेषः परमार्थतस्तेन हेतुना नित्यादपिवस्तुनः तद्भावसिद्धेः-अधिकृतविज्ञानभावसिद्धेः । भावोऽपि तस्य वस्तुनः क्षण-१५ स्थितिधर्मणा विज्ञाने नावगम्यत इति चेत्, को वा किमाह ? एवमेवैत- : दित्यर्थः । आत्मानुमानतो ज्ञानेन क्षणिकताधिगतिरिति चेत् वस्तुन इति । एतदाशङ्याह-न, आत्माभावे ज्ञानस्य क्षणिकतया निवृत्तेः तस्यापिअनुमानस्यापि अप्रवृत्तः । इत्यलं प्रसङ्गेन विजृम्भितमेवात्र-व्यतिकरेऽस्मत्खयूथ्यैः-दिवाकरादिभिः सन्मत्यादिषु इति ॥
२० स्मरणाद्यसम्भवस्तु प्रागुपन्यस्तः प्रतिक्षणनिरन्वयनश्वरत्वे सति वस्तुनः सचेतनादेः सुभाव्य एव । न यस्मादन्येन-प्रमात्रा अन्यस्मिन्प्रमेयेऽनुभूते सति अन्यस्य-प्रमातुरन्योपलब्धौ-प्रमेयान्तरोपलब्धौ स्मरणप्रत्यभिज्ञानादयो युज्यन्त इति । एवम्-उक्तनीत्या ऐहिकसकललोकसंव्यवहाराभाव इति स्थितम् । आमुष्मिकव्यवहारस्तु पारलौकिक: २५ कर्मफलसम्बन्धादिः सुतरामसङ्गतः । कुत इत्याह-कृतनाशाकृताभ्यागम
(विवरणम्) (१४) भावाभावाभ्यामविशेष इति । अन्वयाभावे हि ज्ञानस्य जीयमानेऽस्य विषयवस्तुनः सम्बन्धिभ्यां भावाभावाभ्यां न कश्चिद् विशेष इति ॥
१ 'मायो नावगम्यस' इति क-पाठः । २ श्रीसिद्धसेनदिवाकरादिभिः । ३ 'क्षणं निरन्वय' इति ग-पाठः। ४ 'जायमानस विषय.' इति ख-च-पाठः ।