________________
१३० अनेकान्तजयपताकाख्यं प्रकरणम्
[पष्टः (मूलम्) चेत्, न, अस्य धर्मकीर्तिनाऽनङ्गीकृतत्वात् । किं तेन ? मयाऽङ्गीकृतो न्याय्यत्वादिति चेत्, अङ्गीक्रियतां तर्हि कथञ्चित् तत्स्थैर्यमप्यनुभव५न्यायसम्पन्नत्वात्, अन्यथा क्षणिकत्वाधवगतिविरोधात् । न ह्येकान्तेन क्षणस्थितिधर्मणा विज्ञानेनोपलब्धोऽपि भावः क्षणिकोऽयमिति गम्यते, तदनु तेन तदभावानवगमात् तमन्तरेणापि तद्गतावतिप्रसङ्गः शङ्खपीतज्ञानवदतथाभूतादपि ततः कुतश्चिन्निमित्तात् तत्तथाभूतभावाविरोधात्, तत् प्रतीत्य भवतस्तत्त्वतस्तदुपकारानपे.
(खो० व्या०) अर्थ-संवेदनयोः प्रतिवन्धः। इति चेत् , एतदाशझ्याह-नेत्यादि । न अस्य-ग्राह्यग्राहकमावलक्षणस्य प्रतिबन्धस धर्मकीर्तिना-भवत्तार्किकचूडामणिनाऽनङ्गीकृतत्वात्। किं तेन? मयाऽङ्गीकृतो न्याय्यत्वाद्धेतोः। इति चेत्, एतदाशयाह
अङ्गीक्रियतां तर्हि कथञ्चित्-केनचित् प्रकारेण द्रव्यार्थतया तत्स्थैर्यमपि१५ अर्थसंवेदनस्थैर्यमपि, अनुभवन्यायसम्पन्नत्वात्; अन्यथा-एवमनभ्युपगमे क्षणिकत्वाद्यवगतिविरोधात् । ऐनमेवाह-न हीत्यादि । न यस्मात् एकान्तेन क्षणस्थितिधर्मणा विज्ञानेन उपलब्धोऽपि सन् भावः क्षणिकः अयमिति गम्यते, तदनु-तत्पृष्ठतः तेन-विज्ञानेन तदभावानवगमात्, तुल्यकालनिवृत्त्येति भावः । तं-तदभावावगममन्तरेणापि तद्गतौ-क्षणिकत्वगतौ २० अतिप्रसङ्गः, अक्षणिकत्वाधिगत्यापत्तेः । एतद्भावनायैवाह-शङ्खपीतज्ञानवत्
इति निदर्शनम् , अतथाभूतादपि ततः-वस्तुन इह तावन्नित्यादपि कुतश्विनिमित्तादान्तरदोषतोऽवस्थाभेददर्शनादेः तत्तथाभूतभावाविरोधात् । तच्च तत् तथाभूतं च तत्तथाभूतं तस्य भावस्तत्तथाभूतभावस्तस्याविरोधात् । एतदुक्तं भवतिनित्यादपि वस्तुनो यथोक्तनिमित्तात् क्षणिकविज्ञानभावाविरोधादिति । एतद्भावनायै२५ वाह-तत् प्रतीत्येत्यादि । तत्-अनित्यं वस्तु प्रतीत्य भवतो विज्ञानस्य
(विवरणम्) (२४) यथोक्तनिमित्तादिति । अवस्थाभेददर्शनलक्षणात् ॥
१ 'त्वायधिगति विरोधात्' इति ग-पाठः। २ "एनामेवाह' इति ङ-पाठः । ३ 'एकं तत्क्षण.' इति क-पाठः; ङ-पाठख 'एकान्तक्षण.' इति । ४ 'तच तथाभूतं' इति उ-पाठः । ५'प्रतीय ततो' इति क-पाठः।