________________
स्वोपज्ञव्याख्या मुनिचन्द्रीय विवरणयुतम्
( मूलम् )
मिति कथं न प्रतिबन्ध इति ? । उच्यते-ग्राह्य ग्राहकयोर्मिथो हेतुहेतुमद्भावाभावतस्तदुत्पत्त्यसिद्धेः, उक्तवदन्योन्यमनुपकारित्वेन निमितताऽनुपपत्तेश्च । ग्राह्यग्राहकभावलक्षण एव तयोः प्रतिबन्ध इति ५
अधिकारः ]
१२९
( स्वो० व्या० )
ज्ञानं च तदेव निमित्तं यस्य खोपादानस्यार्थसम्बन्धिनस्तज्जन्यं च ग्राह्यमिति - एवं कथं न प्रतिबन्धोऽर्थसंवेदनयोरिति प्रतिबन्ध एवेति । एतदाशङ्कयाहउच्यते । यथा न प्रतिबन्धः ग्राह्य-ग्राहकयोः प्रस्तुतयो र्मिथः - परस्परं हेतु - हेतुमद्भावाभावात् कारणात् तदुत्पस्यसिद्धेः समानकालतयेति भावः । १० उक्तवत् यथोक्तं तथाऽन्योन्यमनुपकारित्वेन हेतुना निमित्तत्वानुपपत्तेश्व कारणादिति । ग्राह्येत्यादि । ग्राह्यग्राहक भावलक्षण एव तयो:
( विवरणम् ) कार्यसाधनप्रवृत्तसमनन्तर विज्ञान निमित्त स्वोपादानजन्यं च ग्राह्यमिति कथं न प्रतिबन्ध इति ? | एवं सूत्रं तावद् व्याख्यायते - स्वकार्थसाधने प्रवृत्तं स्वकार्य - १५ साधनप्रवृत्तम्, तच्च ग्राह्यं च - मृदादि तन्निमित्तं - सहकारि यस्य तत् तथा, तच्च तत् स्वोपादानं च प्राच्यविज्ञानलक्षणरूपं तेन जन्यते त ( य ? ) त् तत् स्वकार्यसाधनप्रवृत्तप्राह्मनिमित्तस्खोपादानजन्यं वर्तते विज्ञानम् । तथा एवम् अनेनैव प्रकारेण स्वकार्यसाधनप्रवृत्तं च तत् समनन्तरं विज्ञानं च, तन्निमित्तं - सहकारि यस्य तत् तथा, तच्च तत् स्वोपादानं च - मृदादि तज्जन्यं वर्तते ग्राह्यं - घटादि । अयमभिप्रायः - विज्ञानस्य २० सम्बन्धी उपादानक्षणो विज्ञानं जनयन् आत्मसमकालभाविनमर्थक्षणमपेक्षते । अर्थस्यापि सम्बन्धी उपादानक्षणोऽर्थक्षणं जनयन् सन्नात्मसमकालवर्त्तिनं विज्ञानक्षणमपेक्षत इति । ततो यद्यपि समानकालभाविनाऽर्थक्षणेन न ज्ञानं जनितं तथापि तत्सजातीयेन पाश्चात्यक्षणेन जनितमिति कृत्वा समानकालभाविनोऽर्थस्य ग्राहकं भवतु, तत्तुल्येन जनितत्वादिति । एतद्व्याख्यानानुसारेण वृत्त्यक्षराणि सुगमान्येवेति २५ न व्याख्यातानि ||
(११-१२) निमित्तत्वानुपपत्तेश्चेति । सहकारित्वस्य घटनादित्यर्थः ॥
१ 'भाषः, तदु०' इति ग-पाठः । २ 'भावात् तदु०' इति ङ-पाठः । ३ 'विज्ञानं भूतनिमित्तं "" इति ख-ख- पाठः । ४ 'वेनस्थापादानं' इति ख-च- पाठः । ५ ' भवतुल्येन' इति च - पाठः । अनेकान्त • १७